________________
द्वितीयविशिका
१८३
कक्रमारोहे] इति । यदि वा सत्यपि मिथ्यात्वोदयेऽनन्तानुबधिना मन्दत्वमध्यत्वभावो यथाभद्रकत्वादिनानुमेय.। स च न तन्मूलमिथ्यात्वमन्दत्वाद्यन्तरेति योग्यमेवास्य क्षायोपशमिकत्वम्, अत एव च मिथ्यादृष्टित्वेऽप्युत्थितानुत्थितादिविकल्प. सङ्गच्छते इति । सम्यडमिथ्यात्वस्य तु द्विधा गतिस्तद्वता द्विधा गते । केचित् प्राप्स्यत्सम्यक्त्वाः केचिच्च प्राप्स्यन्मिथ्यात्वा इति स्पष्टो मिश्रोदयेऽपि तरतमभावः । स एव च क्षयोपशमाविनाभावीति क्षायोपशमिकता तस्य । न चात्र ते भिन्ने उदिते, सम्यक्त्वमूलत्वेन तयोस्तद्ग्रहणेनैव ग्रहणात्। तथा च नाधिका क्षायोपगमिका इति। भावचतुष्कमाख्याय क्रमनिर्दिष्ट पञ्चम (भाव)निदिदिक्षयाहु.-'परिणामे'ति । तद्धितलुगन्तनिर्देशात् पारिणामिक इति। तत्र यद्यपि परिणामशब्देन "नार्थान्तरगमो यस्मात् सर्वथैव न चागम । परिणाम प्रमासिद्ध इष्टश्च खलु पण्डितै." ॥१॥ इतिवचनात् पूर्वावस्थापरित्यागेनोत्तरावस्थापरिणतिरुच्यते । तथापि नात्र स गृह्यते, किन्तु पारिभाषिकतया स्वभाव एव । तथा च परिणामेन-स्वभावेन निवृत्तः पारिणामिक -स्वाभाविक इत्यर्थो निष्पद्यते । ननु किमिति पारिभाषिक. परिणामार्थः परित्यज्यते इति चेत्, नहि जीवत्वभव्यत्वादिकं नूतन येन तदर्थपरिग्रह समञ्जसतामापद्येत । स च विधा, यदाहु-"जीवभव्याभव्यत्वादीनि च" [तत्त्वार्थ०] इति । तत्र जीवति जीविष्यति अजीवीत् इत्यौणादिका प्रत्यये जीवः, तस्य भावः स्वरूपमवच्छेदकधर्मो वेति जीवत्वम्, तद्धि स्वाभाविकमेव । यतो न हि पूर्वमजीवस्य सतो जीवत्व भवति, येनादो न स्यात् पारिणामिकम्, किन्त्वनादिनिधन, जीवस्यानादिनिधनत्वात्, तदपि तस्य वीतरागजन्मादर्शनन्यायेनाकिञ्चिन्मयत्वादिना सिद्धमेव । तथा भविष्यति सिद्धिपर्यायेणेति भव्य.। तद्विपरीत