________________
द्वितीयविगिका
१८२
ट्ठावण-परिहारविसुद्धि-सुहमसपरायचरित्तलद्धी खओवसमिया चरिताचरित्तलद्धी खओवसमिया दाणलाभभोगोवभोगवीरियलद्धी खओवसमिया बाललद्धी पडियलद्धी खओवसमिया बालपडियलद्धी खओवसमिया सोइदियलद्धी जाव फासिदियलद्धी खओवसमिया आयारधरलद्धी जाव दिठिवायघरे खओवसमिया नववधरे जाव चोहसपुव्वधरे खओवसमिए गणीवायए, से त खओवसमनिप्फन्ने"त्ति । अत्र च सामायिकादिकाश्चारित्रभेदा बालपण्डितबालपण्डितत्वानि च केवलसम्यक्त्वचारित्रदेशविरतिहेतुका परिणामा. सम्यक्त्वादिकार्यभूता इति न पृथगुक्तेभ्यः । श्रोत्रेन्द्रियाद्याधुपलब्धयश्च न मतिज्ञानचक्षुरचक्षुर्दर्शनेभ्यो भिन्ना लब्धीन्द्रियाणां क्षयोपशमस्वरूपत्वात्, तस्य च मत्याद्यावरणक्षयोपशमरूपत्वादुपयोगेन्द्रियाण्यपि मत्यादिरूपाण्येव, अत एव च क्षायोपशमिकानीन्द्रियाणि । न च केवलिनस्तानीति पठचते पूर्वोक्तयुक्तेन्तस्य मत्याद्यभावात् । द्रव्येन्द्रियाणि त्वौदयिक पर्याप्तनामकर्माश्रित्योद्भ तानि त्विन्द्रियाणि सन्त्येव यदपेक्ष्योच्यतेऽसौ पञ्चेन्द्रिय इति । आचारधरत्वाद्या गणिवाचकत्वावसानालव्धयस्तु स्पष्टमेव श्रुतज्ञानोदयजाता इति नाधिकाः क्षायोपशमिकदा । ननु प्रोक्तान्तर्भावेऽपि सामायिकादीना मिथ्यात्व-सम्यग्मिथ्यात्वयो कथ क्षायोपशमिकत्वम् । कथ वा नाभिहिती तावत्र भेदौ, कुत्र वा अन्तर्भावनीयाविति चेत्, सत्य, मार्गानुसारिमार्गपतितादिभेदभिन्न मिथ्यात्व न मन्दतामन्तरेण तस्य, सा च क्षयोपशमप्रभवेति युक्त मिथ्यात्वस्यापि तथाविधस्य क्षायोपमिकता। अत एव च मिथ्यात्वस्य गुणस्थानकतापि सङ्गच्छते। यद्वा-अव्यक्तमिथ्यात्वाद्वयक्तमिथ्यात्वप्राप्तिनं क्षयोपशममन्तरा, स च मिथ्यात्वस्यैवेति क्षायोपशमिकता तस्य । यत उच्यते-"व्यक्तमिथ्यात्वधीप्राप्तिर्गुणस्थानतयोच्यते" [गुणस्थान