________________
द्वितीयविशिका
१८१
rrrr .
अत एव बन्धवधादीनामतिचारत्वं सङ्गच्छते, भङ्गाभङ्गरूपत्वात्तेषाम् । न च वाच्य देशविरते सूक्ष्मत्वात् कुन्थ्वादिकाये छिद्रमिव न तस्या भङ्गाभङ्गरूपातिचारसम्पत्ति । अन्यच्च-"सव्वे वि य अइयारा सजलणाण उदयओ हुति । मूलच्छेज्ज पुण होइ बारसण्ह कसायाण ॥१॥" इत्यादिवचनात्तेषा प्रत्याख्यानावरणाद्युदये स्पष्टैव देशविरते क्षतिर्न त्वतिचारतेति । कुन्थ्वादिष्वपि स्वापेक्षया तथाविधच्छिद्रसत्त्वमिव अन्यथा तथाहाराद्यपरिणतेर्देशविरतेरपि स्युरेवातिचारा । “सव्वे वि य" इत्यादि च सर्वविरत्यपेक्षमिति न तदुदयतो देगविरतिक्षति । व्याख्यायते च कैश्चिदेषा गाथैव-यथा द्वादशाना कषायाणामुदये मूलच्छेद्यमित्यस्यैष परमार्थो यदुत-यथा सञ्ज्वलनास्तीवा मन्दा मध्या वाऽतिचारानाऽऽपादयन्ति,तथा नान्ये, किन्तु प्रत्याख्यानावरणोदये चारित्रस्य हतिरेव । एवमप्रत्याख्यानोदये देशविरतेरनन्तानुवन्ध्युदये च सम्यक्त्वस्यापीति पूर्वपूर्वकषायोदये पूर्वपूर्वस्य मूलच्छेद्यतेति। तथा च कथ नातिचारत्वमस्या, व्यपदिष्टाश्च साक्षादेव सूत्रप्रकरणयोरतिचारा अप्यस्या इत्यलमप्रस्तुतेन। इत्थमेव दिग्विरत्यादावपि शेषदिग्गमनानर्थदडसावधकरणादिभोगोपभोगोपयोगिसक्षिप्तेतरादिभ्यो विरतत्वादितरेभ्यश्चाविरतत्वात् स्पष्ट एव देशविरताना सयमासयम । तथा च पञ्चदशाना त्रिभिर्मेलने जाता एवाष्टादश । एते च क्षायोपशमिका । चकारश्चात्र मत्यादीनामवग्रहादिभेदज्ञापनाय, तेन श्रोत्रेन्द्रियलब्धिरित्याद्यनुयोगद्वारनिर्दिष्टेनापरिगणितशेपक्षयोपशमेन न विरोध । तथा च तत्सूत्र-“से कि त खओवसमनिप्फण्णे २ अणेगविहे पण्णत्ते, तं जहा-खओवसमिया आभिणिवोहियनाणलद्धी एव सुयओहिमणपज्जवनाण-मइअन्नाण-सुयअन्नाण-विभगनाणसम्मदसण-मिच्छादसण-सम्ममिच्छदसण-सामाइयचरित्त-च्छेओर