________________
द्वितीयविशिका
१८० -
HAL
ननु कथ पृथगुपन्यास एषामिति चेद्, एकककेति सङ्ख्याया अनुपन्यासेन लाघवायेति । कथ नैवमोदयिक इति चेत्, पर्यन्ते लेश्योंपादानस्य सकारणत्वात्तासा पर्यन्ते उपादाने चावश्य सवयाया उपादेयत्वादिति । न च वाच्य सम्यक्त्व चारित्रं च 'सम्यक्त्वचारित्रे' इत्येतस्मादीपशमिकादनुवर्तेते एव, न चोपात्ते साक्षात् अत एव क्षायिके, किन्तूपरिण्टादाकृष्टे, तथाऽत्रापि विधेयम्, निर्देश्यश्च स्पष्ट केवल सयमासयम एवेति चेत्, सत्य, पर परिभापानभिज्ञताख्यापकमेतत, यतो न सम्यक्त्वचारित्रे इत्यनुवत्तिते क्षायिकसूत्रे, किन्तु चकारेणानुकृष्ट 'चानुकृप्ट च नोत्त- . रत्रे'ति हि वैयाकरणाना समयः सुप्रसिद्ध एव । न च वाच्य नाकर्पणीये तहि चकारेण, एवमेवानुवर्येताम्, तथा सति च नात्र पुननिरूप्यम्, न च पूर्वमूत्रे चकार कर्त्तव्य इति चेत्, सत्य, लाघवमपेक्ष्यार्थस्यैव निर्देश , आचार्यस्य शैलीय वा लक्ष्यते यन्न दीर्घमनुवर्तनीयम्, उद्देश्ये वा नानुवृत्तिरिति पूर्वं चकारेण पश्चाच्च साक्षानिर्देश इति । तथा च तत्र तत्रोक्ततच्छब्दसाफल्यमिति । यद्वा-निवृत्तिवाचकता चकारेणानुकपणे चकारस्याभिप्रेत्येद स्पष्टितम् । यद्वा-अनुवर्तने सयमासयमाद् भिन्नत्व कश्चित्प्रतिपद्येत, कार्य च स्याद्विशेपव्याख्यान वेति नानुवर्तितम्। केचित्त्वित एव भिन्नत्वेन त्रयाणां निर्देश स्वरसादित्याहु । अवान्तरभेदाभावात् पार्थक्येन प्ररूपणानियमज्ञापनायव निर्देश इत्यपरे । तत्त्व (तु) बहुश्रुता एव विदन्ति । अत्र सम्यक्त्व तत्त्वार्थश्रद्धानलक्षण, चारित्र सर्वसावद्यनिवृत्तिरूप सामायिकादीनामन्यतमम्, सयमासयमश्च स्थूलेभ्यो हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो ज्ञात्वाऽभ्युपेत्याकरणमितिस्वरूपा विरति सूक्ष्मेभ्यश्च तेभ्योऽविरति , अविरतिश्चेपा परिहर्तुमशक्यत्वाद् गृहस्थत्वे न तु परिणामाभावात्,