________________
द्वितीयविशिका
१७९
wovvvvNNA
प्रयत्नस्योपशमे चावश्यपातभावात्, गत्यन्तरालेऽपि चास्त्येव क्षयोपशम , चेतनादिसत्त्वादिति द्विविधानि दानादीनीत्येव सम्यग् । लधित्व चोपशमादित्रयान्यतमप्रभवत्वम्, इत्थमेव च सर्वा लव्धय साकारोपयोगोपयुक्तस्येति सङ्गच्छते, तस्यैवोपयोगविशेषेणैवैतद्भावात् । उपयोगविशेषता च साकारतैव। ननु कथमहदादिपदवीनामौदयिकीनामपि लब्धित्व जेगीयते तीति चेत्, क्षयादिहेतुता प्रतीत्येव नान्यथा । अत एव च लब्धिवर्णनाधिकारे चक्रधरादिबलवर्णन सङ्गच्छते । ननु कथ तहि सत्यामप्यष्टाविंगतौ लव्धीना पञ्चैवैता ? अष्टाविंशतिश्चैव-"आमोसहि विप्पोसहि खेलोसही जल्लओसही चेव । सव्वोसही सभिन्ने ओही रिउविउलमइलद्धी ॥१॥ चारण आसीविस केवली य गणहारिणो य पुव्वधरा । अरहत चक्कवट्टी बलदेवा वासुदेवा य ।।२।। खीरमहुसप्पिआसव-कोट्ठयबुद्धि-पयाणुसारी य । तह बीयबुद्धि तेयग आहारग सीयलेसा य ॥३॥ वेउव्विदेहलद्धी अक्खीणमहाणसीपुलाया य । परिणामतवविसेसा एमाई हुति लद्धिओ॥४॥"इति । न च वाच्यमुपलक्षणीभूता इमा , तथा सति पञ्चानामप्यग्रहणप्रसङ्गात् इति चेत्, सत्य, पर सर्वा अपि तपोविशेषोद्भवा , तपश्च वीर्यान्तरायक्षयोपशमजम् । यत एवोच्यते-'विशिष्टज्ञानसवेगशमसारमतस्तप.। क्षायोपशमिक ज्ञेयमव्याबाधसुखात्मक[अण्टके ] मिति । यश्च परिणामविशेष. सहकारितयाऽभिप्रेयते सोऽपि चारित्रादिनाऽत्र गृहीत एवेति न न्यूनता लब्धिपञ्चकोपन्यासेऽप्यत्र । ननु किं तहि गृहीता अवध्याद्या स्पष्टमिति चेद्, आत्माऽसाधारणगुणत्वेन विनापि तपो भावाच्चेत्यल प्रसङ्गेन। चतुस्त्रित्रिपञ्चभेदा' इति तु गतार्थमेव । एव प्ररूप्य क्षायोपशमिकान् पञ्चदश भावान् गेपास्त्रीनाहु 'सम्यक्त्वचारित्रसयमासयमाञ्चेति।