________________
द्वितीयविशिका
धर्माधर्माकागपुद्गलत्वादयोऽपि ग्राह्या । न चैतत् स्वमनीषिकाविजम्भितम् । यत उक्तमेव-"औपशमिकक्षायिको भावी मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिको चे"त्यत्र मध्यभागे जीवस्य स्वतत्त्वमनुवद्भिर्भाष्यकारैरजीवानामपि प्रान्त्यभावयुगलम् । एतदपि च नः स्वमनीपिकया व्याख्यायते, यत आह - 'छद्धा जीवसमासो; परिणामुदओ अजीवाण"ति तथा धम्माधम्मागासा कालो त्ति य पारिणामिओ भावो । खंबादेसपएसा अणू य परिणाम-उदए य ॥१॥" इति। तन्नाजीवाना पारिणामिकभाववत्त्वाख्यान सूत्रोत्तीर्णमिति । एतच्च पारिणामिक स्वाभाविक इत्यर्थमुररीकृत्य ज्ञेयम् । यदि च पारिभाषिक परिणामस्यार्थः कक्षीक्रियते, तदापि न विरोध । कथ अनादीना जीवत्वादीना परिणामभवत्त्व ? तस्य सादित्वादिति चेत् । प्रतिक्षणभाव्युत्पादव्ययध्रौव्याक्रान्तत्वात् क्षणविशिष्टतया भावाद्वाऽनादीनामपि भवत्येव भवनता । पठ्यते चातःसर्वव्यक्तिषु नियत क्षणे क्षणेऽन्यत्वमथ चे न विशेष' । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ॥१॥ इत्यादि । भावेऽपि च क्षणे क्षणेऽन्यान्यत्वस्य, नान्यथा परिणमन्ति ये तेऽनादिपारिणामिका इति तत्त्वम् । तत एव चोच्यते पूज्यपादै -"तद्भाव. परिणाम। अनादिरादिमांश्चेति । [ तत्त्वार्थ० ] अत एव च 'रूपिष्वादिमानि ति पौद्गलिक पारिणामिक. सादिपरिणामभावोऽप्याख्यायमान सङ्गच्छते । न चैतत् स्वकल्पनाशिल्पिनिर्मितम्, यत सूत्र"से कि त पारिणामिए भावे ?, पारिणामिए भावे दुविहे पण्णत्ते, त जहा-साइयपारिणामिए य अणाइयपारिणामिए य । से कि तं साइयपारिणामिए ?, साइयपारिणामिए । अणेगविहे पन्नत्ते, त जहा-जुन्नसुरा जुन्नगुलो जुन्नधय जुन्नतदुला चेव । 'अम्मा य अन्भरुक्खा, सज्झा गधवनयरा य ॥१॥ उक्कावाया दिसादाहा