________________
द्वितीयविशिका
सर्वथा मन समायोगे तु मूलशरीरस्य निश्चेष्टतापत्ति, यतोऽणु मनस्तेषा, यावच्छरीरव्यापिताभ्युपगमे च मनसो न तत्कल्पनप्रसङ्ग । युगपज्ज्ञानानेकत्वनिवारण त्वात्मन एकोपयोगस्वाभाव्यात्, रासन प्रत्यक्षकाले स्पार्शनापत्तिवारणाय प्रतिवन्धकत्वकल्पनापेक्षयाऽस्यैवोचितत्वात् । अनित्यं च स्कन्धादि द्रव्य 'सडघा - तभेदेभ्य उत्पद्यन्ते' इतिवचनात् । पूर्वमेकतयाध्यवसित स्कन्धो विभक्ततयाऽधुना द्वयमिदमिति प्रतीयते । एकत्वाव्यवसायोपि भवति तथैव भिन्नयो पूर्वमबुना मीलने । न चेदमवयवितयोत्पादविनागयोरभावे । न चैव धर्मांदी, तेपा विभागाभावात् । ननु घटाकाशादिव्यपदेशेन भवेदाऽऽ कागादेरप्युत्पत्तिनाशप्रसङ्गेनानित्यतेति चेत्, न तस्योपाधिकत्वात् । न हि घटादिनाऽऽकाशस्य किञ्चित् क्रियतेऽमूर्त्तत्वात्तस्य । न च घटादेरुत्पत्तिनाशादिनाऽऽकाशस्यास्ति परावृत्तिभिन्नता वोद्योतस्येव जलधारया काचादिना वा । यच्चावगाहदानस्वभावत्वात्तद्भेदेन भिन्नताऽस्य नोद्येत सा तु न नाभ्युपगम्यते, पर नैतावताऽवयवितयोत्पादविनाशभावी । यद्वासर्वोऽपि पुद्गलास्तिकायोऽनित्योऽणोरपि भेदादुसादात् स्कन्धीभावादिना कथञ्चिन्नागाच्चेति । द्रव्यत्वेन पुद्गलानामवस्थितेरपि भिन्नावयवित्वभावादेव व्यपदेश । यद्वा भिन्नभिन्नव्यपदेशभावेनजीवा पुद्गलाश्चैतद् द्वयमपि भवत्यनित्य, नैव धर्माद्या इति ते नित्या इति व्यपदिष्टा ज्ञेया । एतादृगं 'यदि' ति सामान्यनिर्देशेन यद् यद् यद्यदपेक्षया तथोच्येत तत्तत्तथा तथा ज्ञेयमिति दर्शयति । यदिति वा जीवादि परमाण्वादि वा । किमेवविध ?, इत्याह- द्रव्यपूर्वोक्तस्वरूपं, गुणपर्यायाणामनित्याना सतामपि नात्र चिन्ता, तेषा द्रव्याधारत्वात् । चकार. पूर्वोक्तपक्षत्रयसमानकक्षताद्योतनाय । तद् द्रव्यलोक 'जानीही 'ति पूर्वोक्तमत्राप्यनुयोजनीयम् । भिन्नव्य
1