________________
द्वितीयविशिका
कदाचनापि । ननु दृश्यते एव घटादेविनाश इति चेत् । सत्यं, दृश्यते घटाकृते ,न तु द्रव्यस्य,अन्यथा कपालयोरद्रव्यत्वापत्तेः । नच विद्यतेऽद्रव्य पर्याय । न-च वाच्य-तहि किमिति नास्त्येव द्रव्यमनित्यमिति चेद् । नास्त्येव, - स्वस्वरूपेण तस्य नागाभावात्.। कथं वक्ष्यन्ति तहि यदनित्य द्रव्यमिति । सत्यं वक्ष्यन्ति, पर पर्यायनागापेक्षया कथञ्चिद् द्रव्यस्य नाशमभ्युपगम्य । नहि द्रव्यव्यतिरिक्ता सन्ति पर्यायाः, नाशे च तेषा तदव्यतिरिक्तत्वाद् द्रव्यस्यापि स्यान्नाश इति तस्यामिमता पर्यायनाशापेक्षयैवानित्यता, द्रव्यस्वरूपापेक्षया तु न कथञ्चनापि सम्भवोऽस्त्यनित्यस्य द्रव्यस्य । अपेक्ष्येनमेवाभिप्राय 'भेदादणु रित्यत्राणोरप्योत्पत्तिकत्वं परमपुरुषैः स्वीक्रियते, अन्यथा नास्त्यवाणो श उत्पादो वा, पर्यायापेक्षयैव तद्भावात् । न च तद्भावाव्ययस्य नित्यलक्षणत्वेन विरोधलेशोऽपि। स्यादेव तेषामसौ, ये प्रागभावाप्रतियोगित्वे सति ध्वसाप्रतियोगित्व अप्रच्युतानुत्पन्न स्थिरैकस्वभावत्व वाहुनित्यलक्षणं, तेषा हि विशिष्टनाशे स्वलक्षणपरिभाषयाऽनित्यस्वीकारापत्तेः। यतो हि मनुष्यतया विनश्य देवत्वेनोत्पादे जीवस्य,घटतया विनश्य कपालतयोत्पादे च मृद्रव्यस्यावस्थानघटना दुर्घटा, आकाशप्रमुखाना चापरापरावगाहनादेश्चानित्यता, तेषा नूतनस्वभावोत्पादेन स्यादावश्यकी । परिणामवादिना तु द्रव्यत्वापेक्षया नित्यताया पर्यायापेक्षया चानित्यताया स्वीकारान्न विरोधगन्धोऽपि । तद्विपरीतमनित्य। यद्वा-नित्य धर्माधर्माकाशजीवा । यतस्तेषा नास्त्यवयवितया भेदो। ननु छिन्नगृहकोकिलापुच्छादी कम्पोपलम्भात् कथं नावयविभेद ? इति चेत् । तन्न, पद्मनालतन्तुवदात्मप्रदेशश्रेण्यास्तत्राव्यवच्छिन्नत्वान्न भिन्नावयवित्वम्, । अदृष्टवगेन नानामन समायोगे कम्पोपलब्धे. कल्पन, सर्व-यापित्वमात्मनो यदभ्युपगतपूर्वं तन्निर्वाहमूल,