________________
द्वितीयविशिका
१०
Avvvv
तादृश नियमस्याप्रामाणिकत्वात् त्र्युटयादीनामवयवित्वेऽपि कैश्चिन्नित्यताऽभ्युपगमात् अवयवित्वस्यानित्यताऽप्रयोजकत्वाच्च । तत्त्वतस्तु स्वस्वपर्यायविनाशेन सर्वपा पर्यायविनागिता द्रव्यतोऽविनश्वरत्व चाऽऽकाशदीपमवगन्तव्य सुनिश्चितम् । तत् सुष्ठूच्यते-द्वयणुकाद्या. स्कन्वा धर्माद्याश्च संप्रदेशा , परमाणुरेवाप्रदेश इति । चकारस्तु त्रयाणामपि जीवाजीवरूप्यरूपिसप्रदेशाप्रदेशलक्षणाना द्रव्यलोकता समैवेतिप्रतिपादनार्थ । एतन्त्रय किमित्याह-'जाणाहि दव्वलोग'ति । जानीहि- अववुद्धचस्व, द्रव्यलोकमिति । तत्र द्रव्याण्येव जीवाजीवरूप्यरूपिसप्रदेशाप्रदेशानि लोको-लोकशब्दवाच्यस्तेपामपि निरूपणीयत्वादालोक्यमानत्वाच्च । सञ्जाशब्द एवैव प्रज्ञाप्यते द्वारप्रस्तावादिति द्रव्यलोको। यद्वा द्रव्याण्येव त्रिकालिकपर्यायपरिणामित्वाज्जीवादीनि पर्यायलोककारणानीति तेषा द्रव्यलोकता,भूतभाविकारणार्थत्वाद् द्रव्यशब्दस्य, तदुक्त
'भूतस्य भाविनो वा भावस्य हि कारणं तु : यल्लोके । तद् द्रव्य तत्त्वज्ञ. सचेतनाचेतन कथित'। मिति । न केलं पूर्वोक्तभेदभिन्न एव, किन्त्वन्यथापि भवतीत्याह-'निच्चमनिच्च ज दव्व'ति । तत्र नितरामतिशयेन यम्यते-उपरम्यते नाशादनेनेति नित्यं शिक्यास्याढयमध्यविन्ध्यधिष्ण्यान्ध्यहर्म्यसत्यनित्यादय' (३६४) इति त्ये इष्टरूपनिष्पत्ति । जीवधर्माधर्माकाशपुद्गला , 'नित्यावस्थितान्यरूपीणी तिवचनाता'तद्भावाव्यय नित्य'मित्येवास्य लक्षणम् । नच जीवादीना पर्यायपरावृत्तिसम्भवेऽपि द्रव्यतयास्ति परावृत्तिस्त्रिकालमेकरूपत्वाद् द्रव्यस्य,अन्यथा द्रव्यत्वमेव न भवेत् । विगिष्टनाशे विशेष्यनाशाभ्युपगमो हि द्रव्यपर्याययोः कथञ्चिदभिन्नत्वात् पर्यायाणां व्यपगमादेव । द्रव्य स्वस्वरूपेण तु न नश्यत्येव