________________
द्वितीयविशिका
स्कन्धीभावो घटतेऽडगीकारेऽप्यणनामिति । परमाणोः स्पर्शनापेक्षया सप्रदेशत्वनियमात् । युक्तश्चाय पन्था एकस्मिन्प्रदेशे आकाशस्यावगाहनात् षण्णा दिशां चैकैकप्रदेशेन स्पर्शाच्च । दृश्यते च सूक्ष्मोऽपि विन्दु सर्वतः सजातीयः स्पृशन् । न च भवत्यन्यथा कथमपि प्रत्यक्षमधिगम्यमानानां घटादीनामपपत्ति.। भ्रान्तित्वं च तस्य यदभ्युपगम्यते तदेव भ्रान्तिमूलं । न च भ्रान्तमपि सर्वथा - सत्त्वे,शशशृडगभ्रान्त्यनुपलब्धे । केचित्त्वाहु -द्वयणुकादिपुद्गलानां न सन्त्येवावयवास्तस्यावयवित्वानुपपत्तेः। दृश्यादृश्यत्वे तु केशवदुपपादनीये। यत एको न दृश्यतेऽसौ, परं समुदितास्ते दृश्यन्त एव, पुजव्यवहारश्च धान्यराशिवदिति । तदयुक्ततर बन्धाभावे एकावयवग्रहेण समग्रग्रहणस्यायोगात्, घटैकदेशग्रहणेन समग्रघटग्रहणवत्, धान्यसमुदायादेककणग्रहे नैव भवति समग्रग्रहणं न च भवति सम्बन्धशून्यानामणूना ग्रह , परमाणुत्वव्याहतेः केशदृष्टान्तोऽनुपपन्न एवात्र । यतस्तस्यैकस्यापि प्रत्यक्षादासन्ने । न चाणुर्भवति केवल. प्रत्यक्षविषयः कदाचनापि । न च भवति सम्बन्धाभावे स्थौल्योत्पादो। नन्वासीदेव पूर्व चेत् कय नागतोऽर्वाग्दृष्टिपथम् । द्रव्यतयाऽऽसीनतु पर्यायेणेति तु युक्त पन्याः । सति सम्बन्धे योग्ये तदुत्पादात् सत्कार्यवादमतप्रवेश इति चेद् । द्रव्याथिकापेक्षया तथात्वमस्त्येव, पर्यायाथिकापेक्षया परंमुद्भवात्तस्येति । अन्ये त्वाहु -सन्त्ववयविना प्रदेशाः परमाणूनृते, परमाकाशात्मादीना न ते युक्तियुक्ता अभ्युपगन्तु, सावयवत्वेन अनित्यत्वापत्तेरवयविनोऽनित्यत्वनियमादिति । तदप्यसमञ्जसमेव । इहाकाशे ध्रुव इह चन्द्रमा इत्यादिनाकाशस्य शरीरावच्छेदेन ज्ञानोत्पादाभ्यु-.. पगमाच्चात्मनश्च सावयत्वस्यावश्यमभ्युपगमार्हत्वात् । यच्चोदीरित-अवयव्यनित्य इति । तदपि स्वकदाग्रहनऽथिवतलऽलपितामे,