________________
द्वितीयविशिका
१७३
-
~
-~
~
-
~
~
~
-
~
~
-
~
man amma
यायोत्पादेऽपि निखिलावरणविच्छेद: कारण, न वैकीयमतेन केवलिना भगवता द्वयमप्येतद्भवति, परिमितवस्तुपरिच्छेदात्मकत्वादिन्द्रियवत् । केवल त्वनन्त, यतो द्वितीयमतेन सदपि नोपयोगीति प्रतिपादितमेव प्राक् । अथवा-यथा लब्धेऽपि तृतीयस्मिन्नवधिज्ञाने छद्मस्थ इति व्यपदिश्यते तद्वॉस्तथैव लब्धे मन पर्यायेऽपि व्यपदिश्यते इति च्छद्मस्थत्वसाधर्म्यम् । तथा विपयसाधात्, यथा हि रूपीण्येव द्रव्याण्यभिगच्छत्यवधिमॉस्तथा मन पर्यायज्ञान्यपि । नैतयोरेकतरमपि वेत्त्यरूपाणि । न च वाच्य मन पर्यायवॉश्चिन्तित सजिना पर्याप्तकेन वेत्ति, चिन्तित चारूपमपि स्यादिति कथ मन.पर्याय रूपिविषयमिति। चिन्तितान्न वेत्त्यदः साक्षात् किन्तु चिन्तापरिणतान्मनोद्रव्यपुद्गलानेव, चिन्तितॉस्तु वाह्यान् वेत्त्यनुमानेनैव "जाणइ बज्झेऽणुमाणाओ" इतिवचनात् । तथा चावधिमन.पर्याययो समान एव विषय । तथा यथा ह्यवधिज्ञान क्षायोपशमिकमुदीर्णक्षयादनुदीर्णस्य विपाकत उपशमेन, प्रदेशतो वेदनेन क्रमश स्पष्टतादिरपि भवत्यस्यैवमेव, तथा मन पर्यायमपि क्षायोपगमिकभावान्तर्गतमपि । केवलोत्पत्तेरनुपपत्तिरन्यथा। ततश्च भावसाधर्म्यम् । तथा यथा ह्यवधिज्ञान केवलमात्ममात्रहेतुकोत्पत्तिकतया प्रत्यक्षमिति व्यपदिश्यते तथा मन पर्यायमपि, ततश्च प्रत्यक्षसाधर्म्यम् । स्पर्शनादि तु साव्यवहारिक प्रत्यक्ष, न पारमाथिकमिति तूक्तपूर्वमेव । तथा यथा “ह्यवधिज्ञान विकलप्रत्यक्ष देशप्रत्यक्षीकरणाद्वयपदिश्यते, तथा मन पर्यायमपीति विकलता. साधर्म्यमिति । प्रतिपादितवन्तश्च जिनप्रवचनानुयोगभुवनाभोगप्रदीप्रदीपायमानातनुबुद्धिप्रारभारा. श्रीजिनभद्रगणिक्षमाश्रमणपादा.-"माणसमेत्त-छउमत्व-विसय-भावादिसामन्ना" इति । अत्रादिशव्देन प्रत्यक्षता-विकलतादिग्रह.। केवल तूत्तमत्वात्सर्वेषु यति