________________
द्वितीर्यावगिका
पीति युक्तमेव स्वामिसाधर्म्य वर्ण्यमानमिति । तथा लाभसाधात् । यदा हि सम्यक्त्वमश्नुते देवो नारकोऽज्ञानत्रयान्वितो नरस्तिथंड वा तदा मतिश्रुताज्ञानयोविनाशेन मतिश्रुतज्ञानयोलाम', तथैव विभङ्गस्याप्यपगमेनावधिज्ञानस्य लाभो, मिथ्यात्वनिवन्धनस्वादज्ञानतायाः, ज्ञानतायाश्च निवन्धन सम्यक्त्वमिति युक्त एवं मिथ्यात्वस्यापगमे, लब्धे च सम्यक्त्वेऽज्ञाननागेन सज्ज्ञानलाभो भवत्येव । विषवेगापगमे स्वष्टा चेतनक्रिया, विज्ञत्वे वा सफलत्व क्रियाणाम् । अत एव चार्वागदापूाः परमश्रुतस्यापि मिथ्याजानताव्यपदेश , परतस्तु "चउदस दस य अभिन्ने" इत्यादिना सम्यक्त्वनियमात् सम्यग्ज्ञानता, मिथ्याश्रुतमपि सम्यग्दृष्टिपरिग्रहपूतत्वेन सम्यग्ज्ञानमिति च “सम्यग्दृष्टिपरिग्रहपूत जयति श्रुतज्ञान" तथा "ज पि कुप्पावयणीय" इत्यादि च सङ्गच्छते । आप्तोक्ततया चात्र जैनेन्द्रागमाना सम्यकश्रुतता,यत्किञ्चिज्ज्ञाऽवीतरागोदितत्वेन चान्येषा मिथ्याश्रुतता व्यपदिश्यते। तत्त्वतस्तु परिग्राहकाध्यवसायविशेपेणैव समीचीनता विपरीतता वा श्रुतस्येति नैकस्मिन्नप्यनाश्वास इत्यल प्रसङ्गेन । तदेव काल-विपर्यय-स्वामित्व-लाभसा. धर्म्यतो मतिश्रुतयोरानन्तरीयकतयाऽवधेरुपन्यास । तदिदमाहु पूज्य पादा-"काल-विवज्जय-सामित्त-लाभसाहम्मतो तओ अवहि"त्ति । ननु च चतुर्थस्थाने किमिति मन पर्यायमभिहित, न केवल ? इति चेदुच्यते-मानसमात्र-च्छद्मस्थत्व-विषय-लाभ-प्रत्यक्षत्वादिसाधर्म्यात् । यथा हिं निखिलानि रूपिद्रव्याण्यवधिमान् समीक्षते विनेन्द्रियानिन्द्रियसाहाय्यम्, तथा मन.पर्यायज्ञान्यपि मनोलक्षणानि रूपिद्रव्याणि वेत्ति विनैवेन्द्रियानिन्द्रियसाहाय्यमिति रूपिद्रव्यलाभसाधर्म्य, मनोमात्रग्रहणादनेन । तथा यथा हि-च्छद्मस्थ. सन्नेवावाप्नुतेऽवधिज्ञान तथा मनःपर्यायज्ञानमपि। न हि मन प