________________
द्वितीयविशिका
जातिपरत्वात् । तथा वामदेवादिमुक्तौ 'नाद्वैत'मित्यादि प्रतिपादयन्तोऽनेकात्मत्व स्पष्टयन्ति जीवात्मनाम् । अपि च-कैश्चित् "नि.सङ्गोऽय पुरुष." इत्यादिना न कर्तृत्वमभ्युपगम्यते, अभ्युपगम्यते च प्रतिबिम्वोदयन्यायेन केवल भोक्तृत्वम्, तदाऽन्य शुभाशुभकर्मणो कर्तृत्व भोक्तृत्व चेति द्वयमप्यभ्युपगम्यते । जीवात्मना मुक्तिरपि कैश्चित् पदार्थषट्कज्ञानात्, कैश्चित्तु षोडशपदार्थबोधात्, कैश्चित् ऋणत्रयापाकरणात्, कैश्चन ज्ञानमात्रात्प्रकृत्यादीना, कतिभिश्चाविद्यानिवृत्तिमात्रात्, इत्येवमनेकधोररीकृता । मुक्तिरपि कैश्चिच्छुभाशुभादृष्टक्षयरूपा, कैश्चनैकविशतिदु.खध्वसरूपा, कैरपि प्रकृतिवियोगरूपा, कतिभिश्च ब्रह्माभेदरूपा, एक कैश्चन तु विशेपगुणोच्छेदरूपा। कश्चित्पुनर्न मुक्तिनच मुक्तिसाधनमभ्युपगत सर्वज्ञत्वाद्यभावादेवेत्ति । कियन्तो दधिमाषभोजनात् कृष्णा विवेच्या। एवमेव बौद्धानामपि योगाचार-सौत्रान्तिक-वैभाषिकमाध्यमिकाद्या विचित्रतमा भेदा. शून्य-क्षणिक-ज्ञानमात्रादि विचित्रवासनाविर्भावुक बुद्ध व्याकुर्वाणा' परस्परविरुद्धव्याख्यायका एकसूत्रानुयायिनोऽप्यवगन्तव्या । अत एवोक्त "यादृच्छिकोपलब्धिमन्तो मिथ्यादृश" इत्यज्ञानमेव तेषाम् । सम्यग्दृशा चातीन्द्रियार्थदृग्व्यक्तागमानुसारित्वेन परम्परागततदर्थसत्यताभिसन्धिमता च न कथञ्चनापि यादृच्छिकत्वम् । अत एवोच्यते-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नर । मिथ्यादृष्टि सूत्र न प्रमाण जिनाभिहितम् ॥११॥” इति । तथा-"पयमक्खर च इक्क जो न रोएइ सुत्तनिद्दिट्ठ। सेस रोयतो वि हु मिच्छादिट्ठी मुणेयव्वो ॥१॥" इति । एतदेवाभिसन्धाय तत्त्वं निवारितोऽर्थाभेदेऽपि व्यञ्जनभेदो व्यवहारेण । तत्त्वतस्तु तत्राप्यर्थभेदाभ्युपगमान्नयभेदेन, तथा च व्यञ्जनार्थतदुभयभेदनिवारणमेव विरुद्धव्याख्या