________________
द्वितीयविशिका
१६८
एव विचित्रैकमप्याश्रित्य सिद्धान्तम् । यदाश्रित्योच्यते-"यदाऽर्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिप्य । न विप्लवोऽय तव शासनेऽभूदहो । अघृप्या तव शासनश्री ॥१॥" तथा "स्वपक्ष एव प्रतिवद्धमत्सरा, यथाऽन्यशिष्या स्वरुचिपलापिनः । निरुक्तमूत्रस्य यथार्थवादिनो, न तत्तथा यत्तव कोऽत्र विस्मयः ।।१॥' न चैतत्स्वरुचिप्रलपित स्तुतिकृता, यत उपनिपदोऽभ्युपगच्छतामपि नैयायिक-वैशेपिक-साडख्य-जैमिनीय-वेदान्तिना परस्पर विरुद्धा । सहस्रश प्रलापा, आख्यायन्ते च तैरन्यथाकारमन्यथाकारमर्था. श्रुतीना स्वस्वरुचिविरचितैभिन्नभिन्नव्याख्यान । विस्तरस्तु तत्तच्छासनशासितार्थावगमावगम्यो भेदो, लेगतो दर्श्यतेऽत्र, येन तेपा तदनुसारेणान्येषा च यादृच्छिकज्ञानवत्त्व प्रसिध्यति-वेदा एव तात् कैश्चिदीश्वरप्रतिपादिता सकर्तृका पौरुपेया अभ्युपगम्यन्ते "बुद्धिपूर्वा वाक्यकृतिदे" इत्यादिना । तदा कैदिचत् स्वयमेवानादिसिद्धा इति व्यपदिश्यन्ते "तस्मादतीन्द्रियार्थाना, साक्षाद्रप्टुर-भावत । नित्येभ्यो वेदवाक्येभ्यो, यथार्थत्वविनिश्चय ॥१॥" इति । उवन तु शब्दपूर्वत्वमिति च यत आख्यायते । अत्र चिन्तनीय तावद्यत्सर्वम्वामिलपितसिद्धिनिवन्धनेषु वेदेष्वपि न स्वरूपतो निर्णय । तथेश्वरविपयेऽपि न ते एकगास्त्रानुसारिणोऽपि कञ्चिदेक सिद्धान्तमाश्रिताः साडख्यादिका। केचित्तावन्नाभ्युपगच्छन्ति, वेदान्तिनस्तु जगदुपादानरूपमभ्युपगच्छन्ति, नैयायिकवैशेषिकाः पुनर्दृश्यमानचराचरजगन्निमित्तकारणतया कक्षीकुर्वन्ति । आत्मानमप्याश्रित्य केचित् वेदान्तिन एक एवात्मा “एक एव हि भूतात्मा भूते भूते व्यवस्थित" इत्यभ्युपगच्छन्ति, प्रतिपादयन्ति च द्वितीयाद्वै भय भवति, तथा "नेह नानास्ति किञ्चन" इत्यादि। साडख्यादिकास्तु जन्मादिव्यवस्थात पुरुपवहुत्वम्, तथा नाद्वैतश्रुतिविरोधो,