________________
द्वितीयविशिका
१६७
Havar
कुत्सिते स्पष्टमेव निरपेक्षत्व, तच्च नैव सम्भवति सम्यग्दृशाम्, यत एवोदित प्राक् “जेण न निद्धधसो होइ"त्ति । न च प्रवृत्तिमात्रस्याभिप्रायपूर्वकतानियम , सुप्तमूर्छितादावतिव्याप्तेः । अन्या. दशीय प्रवृत्तिरिति चेद्, अस्तु, न विच्छापूर्विका प्रतीकारतया वा प्रवृत्तेस्तीवेच्छारहितत्व स्पप्टमेव । तथात्व च वलवदनिष्टानुसन्धानादिति । अत एवोच्यते-"भवहेउओ"त्ति । न च मिथ्यादगामिव सम्यग्दृशा ज्ञान भवकारणमपार्द्धपुद्गलेनाप्यपवर्गसमापत्ते , अन्येषा तु नानन्तैरपि नियम इति तेषा ज्ञानस्य भवकारणता । यद्वा-यएवाऽऽप्तागमः सम्यग्दृशा यथास्थितार्थावभासकः श्रद्धाविषयतया ससाराम्बुधिपारदेशी, स एवान्येषा ज्वरातना घृतमिव .व्याधिवृद्धि विपरीतबोधतयाऽवज्ञास्पदतया च भवविकारवृद्धिमेव तनुते । उदित च-"स्याद्वादरसायनमश्रद्दधान कुरुते वाचाटताऽपथ्य पुन. पुननिरडकुगतयेति । यथार्थमेव तेषा ज्ञानस्य भवहेतुत्वम् । अन्यच्च-सम्यग्दृशा ज्ञान विलोकितलोकालोकाना भगवता केवलिनामुक्तेरनुसारेणावाप्नोति जन्म, वर्धते च, प्रामाण्यमपि तस्यैवेमे मन्वते यनदनुसारि "तमेव सच्चं निस्सक ज जिणेहि पवेइय" इतिविचारस्य सर्वत्रानुगतत्वात्, अनृतभाषिता च भगवता न कदाचिदपि सम्भवति, तद्धेतूना रागद्वेषमोहाना समूलकापकषितत्वात् । यत उच्यते-"रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्यानृतकारण किं स्यात् ।।१।।" इत्यादि । तथा च न सम्यग्दृशा यादृच्छिक ज्ञानम् । न च तेनाज्ञानसम्भवोऽखिलज्ञातृज्ञानानुसारिज्ञानत्वात् । अत एव ' स्थाने स्थाने पूर्वपुरुषः 'केवलिनो विदन्ति, बहुश्रुता विदन्तीति वा दुर्गमनिर्णये व्यपदिश्यते । एष एव च श्रीमदकलङ्कदेवाकलको महिमा-यत् नान्यथाऽन्यथाप्ररूपणा सिद्धान्तस्य । अन्येपा तु दृश्यत