________________
द्वितीयविधिका
न च कथ मम्यग्दृशा ज्ञानविकलत्वमिति वाच्यम्, यतो निश्चयनयेन फलवदेव कारणं प्रतिज्ञायते, कारकसम्यक्त्वस्यैव तेनाभ्युपगमात, यमाश्रित्याभिसमीक्ष्यते सिद्धान्तोऽप्येव-"ज सम्मति पासहा त मोणति पासहा, ज मोणति पासहा त सम्मति पासह"त्ति । न च भवति कदाचिदप्यनेनाभिप्रायेण ज्ञानिनो विरसा प्रवृत्तिमोहाचैरलि तत्वाल्लेपे तैर्न तज्ज्ञानमेव । न हि भवत्यन्धतमस नितरा भाभरभासितभुवनाभोगे भास्वत्युदिते, तथोक्त-"तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगण । तमस कुतोऽस्ति शक्तिदिनकरकिरणाग्रत स्थातुम् ॥१॥” इत्यादि । अत एव च पारमऽप्ट विरताना सम्यग्दृशामपि वालत्व जेगीयते । व्यवहारेण तु कुशूलस्थवीजानामडकुरकारणतावत् श्रद्धानस्यापि विरतिकारणतामविकलामनुसन्धायाभिधीयते, तेपामपि ज्ञानत्व, प्रत्यक्ष सम्यग्मिथ्यादृशोरध्यवसायतारतम्यानुभवात् । एतदेव सम्यग्दृशा प्रशमादिमत्त्व-यन्न क्रुध्यन्ति तथा, न च भवे रज्यन्ति । न च विहायापवर्ग परमानन्दपदमभिलपन्ति परमिति स्पस्टव तेन ज्ञानिताऽभ्युपगम्यते तेपामविरताना, देशविरताना तु स्पष्टव जानिता व्यवहारेण । निश्चयेन तूभयमेवाभ्युपगम्यते, यत उच्यते तेपा "वालपण्डितत्वमिति” । तत्त्वतस्तु हेयोपादेयोपेक्षणीयाँस्तथात्वेन श्रद्दधानानां ज्ञानत्व सम्यग्दशामविरताना देगविरताना वाऽभिप्रायसोप्ठवात् । अत एव चोच्यते-"सम्महिट्ठी जीवो जड वि हु पाव समायरइ किंची। अप्पो सि होइ बधो जेण न निद्धधसो होइ ॥१॥” इति । "समत्तमि उ लद्धे विमाणवज्जं न वधए आउ" इति च । न च वाच्य कथमभिप्रायसौष्ठवेऽनुचिता प्रवृत्ति. सम्पद्येत?, तस्या अभिप्राये कुत्सिते सत्येव भावादिति । कर्मनियोगादित्यनेन पूर्वमेव समाहितत्वात् । सत्यभिप्राये -