________________
द्वितीयविगिका
१६५
च कषायाऽऽश्रवादीन्, उपादेयॉश्च सुदेवसुगुरुसुधर्मसवरनिर्जरादीन् कपायकलुपिततया मिथ्यात्वमोहितमतिकतयेन्द्रियविषयरसलोलुपतया च नोपाददते । न चोपादेयतया रोचयति । तथैवोपेक्षणीयानाऽऽक्रोशादीन् बालविहितानुपेक्षयति, तत्स्वभावपरिज्ञानेऽपि विशिष्टाहताममतापरिकरिततया कषायोदयस्यानिरुद्धप्रसरतया अनात्मवशवदतया च विदधते क्रोधादिक, शातयति च लब्धात्मलाभानपि कथङ्कार यथाभद्रकादीनिति न तेषामुत्पन्नमपि ज्ञान फलेग्रहि तत्त्वत । यच्चोपादीयते स्त्रक्चन्दनादि, हीयते कण्टकादि, उपेक्ष्यते च स्थाण्वादि, न तत्परमार्थतो विवेकतयाऽभिमन्तु योग्य देहात्मभ्रमवासनालब्धजन्मतया तस्य, तस्याश्च स्पष्ट एव भवभ्रमणनिदानतेति बराकाणा तेषा प्रत्युत ज्ञानादेव भवचक्रपरिभ्रमणमुदयते, इति तेषा भवहेतुर्ज्ञानमिति स्पष्टवाजानता ज्ञानस्य । ननु सम्यग्दृशामपि न विरतिनियता, चतुर्थगुणे विरतेरभावाल्लेशतोऽपि। पञ्चमे च सत्यामपि देशतो विरतौ बहुतराया अविरतेः सत्त्वात् कथ तेपा सम्यग्ज्ञानमिति चेत्, सत्य, तेषा श्रद्धान पर विद्यत एव । यद्यपि कर्मनियोगाद्विदधते हेयादिषु प्रवृत्ति, नोपाददते वोपादेय, तथापि न तदीया वाञ्छा तेषा, वाञ्छा तु तेषा हेयादेर्हानादावेव, यत आहुः-'एव त्वपूर्वकरणात्सम्यक्त्वामृतरसज्ञ इह जीव । चिरकालासेवितमपि न जातु बहु मन्यते पापम् ॥१।। यद्यपि कर्मनियोगात्करोति तत्तदपि भावशून्यमलम्" इत्यादि। अपुनर्बन्धकताप्येवमेव-"पाव न तिव्वभावा कुणड" इत्यादिवचनात् । न च श्रद्धानेऽपि प्रवृत्तिश्चेद् हेयेषु निष्फलमेव तेपामपि ज्ञान मिथ्यादृशामिवेत्यज्ञानतैवेति वाच्यम्, तथाश्रद्धानादेवाल्पीयसा कालेनैव हेयादिहानादेरवश्यभावात् । यदाहु:-"अत एव धर्मयोगात् क्षिप्र तत्सिद्धिमाप्नोति" इति । यद्वा-सन्तु तेऽपि ज्ञानविकला एव ।