________________
द्वितीयविगिका
१६१
साक्षात्सुखदु खादिविधानाभावेन, अन्यथा तु तदभ्युपगमस्यैवानर्थक्याऽऽपत्ते । सूक्ष्मा च शरीरादिकृता ज्ञानकणिका सर्वेषामेवासुमताम्, अन्यथा सञ्ज्ञादीनामप्युच्छेदाऽऽपत्तेः । विगेपाथिभिश्चाकरस्तत्त्वार्थवृत्त्यादयश्च विलोकनीया । एतावता च मतेर्यथा परोक्षत्व तर्थव श्रुतस्यापीति परोक्षत्वसाधर्म्यम् । ततश्च स्वाम्यादिसाधयेण मतेरनन्तर श्रुतोपन्यास इति युक्तमेवोदितम् । आहुश्च महाभाष्यकारपादा दुष्षमाश्यामासमयसमुद्भूताद्भुतसन्तमससम्भ्रान्तजनोद्दिधीकृिपापारावारीणविततप्रदीप्रप्रदीपप्रतिमा -- "ज सामि-काल-कारण-विसय-रोक्खत्तणेहि तुल्लाइ। तभावे सेसाइ तेणाइए मइसुयाइ ॥१॥ मइपुव्व जेण सुयं तेणाइए मई विमिट्ठो वा । मइभेओ चेव सुय तो मइसमणतर भणिय ॥२॥" इति। विवृत चैतदेव प्राक् । मतिश्रुताभ्यामुपर्यवधिश्च कथमिति? चेत्, काल-विपर्यय-स्वामित्व-लाभसाधयदेिव । यथा ह्यप्रतिपतिते मतिश्रुते षट्पष्टिसागराणि यावत्तथाऽवधिरपि । तानि च पूर्ववदेवाभिगन्तव्यानि । तत मतिश्रुताभ्या कालत साधर्म्यता। मन पर्याय तु नैति परभवमीयिवांस नरम् । न चान्यगतौ । स्थितिश्च तस्य जघन्यत समय उत्कृष्टतश्च देगोना पूर्वकोटी। ततोऽधिकायुप्कस्य तदनुत्पत्तेश्चारित्रमन्तरा तदावरणविच्छेदाभावात, चारित्र च यथोक्तस्यैव, केवलस्य तु भगवत साधनन्ता स्थितिरिति न स्थितेस्ताभ्यामनयो साधर्म्यम् । तथा विपर्ययसाधम्र्यात, यश्चा ह्यवाप्तसम्यक्त्वोऽपि कदाचिभ्रान्तिकल्पानन्तानुबन्ध्युदयात् प्रतिपतति सम्यक्त्वात्तदा 'सम्यग्दृप्टेजान सम्यग्ज्ञानमिति नियमत सिद्ध' मिति वचनात् मतिश्रुते तदा ज्ञानरूपे ये अभूता, ते एव मिथ्यात्वावाप्तेरज्ञाने जायते, तथैव चेदसौ प्रतिपतिता देवो नारको