________________
द्वितीयविगिका
-------------
---
-------
-
-
-
--
-
-
-
-
-
-
-
स स्यादेव। यद्वा-व्याप्त्यर्थादक्षेरचि स्यादेवाऽक्ष इति । न च वाच्य 'योगाद् रूढिवलीयसीति न्यायोऽत्र बाधक , व्याकरण एवोपयोगित्वात्तस्य, कोशप्रतिपादिता वा सर्वे रूढा एवार्था एतन्न्यायगृहीता इति ज्ञेयम् । तस्मादक्षात् पर परोक्षम् । परशब्दसमानार्थेन पर गब्देनाव्ययेनात्ययार्थेन समासे परोक्ष इत्यादि । सत्त्ववचनता त्वभ्रादित्वादप्रत्यये भविष्यति, इन्द्रियानिन्द्रिययो पुदगलरूपन्बात् स्पष्टमेव तद्भवस्यात्मन परस्त्वम् । यद्वा-परैरुक्षासम्वन्धो यस्मिन्निति परोक्षम् । इन्द्रियानिन्द्रिययो. पुद्गलरूपत्वेन परत्व तदुत्पन्न च तत परोक्षमेव । यदाह.-अक्खस्स पोग्गलकया ज दविदियमणा परा होति"त्ति । तद्भवज्ञान च परोक्षम् । मतिश्रुते परोक्षे, पुद्गलजन्यत्वात्, व्यतिरेके अवध्यादि । यद्वासम्प्रतिपन्ने परोक्षे माभासत्वात् अनुमानादिवत् । न च विभवस्याभासता वधेर्येन भवेदवधे. प्रत्यक्षस्य साभासत्व, किन्तु मिथ्यात्वसामान्याधिकरणत्वेन तस्याज्ञानत्व जेगीयते । न ह्यवधौ स भवति, येन भवेत्तदाभासरूपम् । यद्वा-परोक्षे एते, इन्द्रियानिन्द्रियोद्भवत्वात् अनुमानवत् । तदुक्त-"दविदियमणा पन तेण तेहि तो ज नाण परोक्खमिह तमणुमाण व' ति। न च वाच्य सर्वथा पर्याप्तावस्थायामप्यभ्युपगम्यमान कथ पौद्गलिकम्, न च वाच्य कार्मणशरीरस्य तदापि सत्त्वात्तदुद्भवं तत, तथा सति यावद्भव तत्सद्भावान् प्रत्यक्षसम्भवन्याप्युच्छेदापत्ते , न च कार्मणमेति तथोपयोगता - 'निरुपभोगमन्त्य'मिति वचनादिति चेत् । सत्य, यथा हि तजमगरीगेपगृहीत आहारादिग्रहणाय व्याप्रियते, तथा जीवस्वाभाव्यादेव तेजसफार्मणाम्यामपगहीतो वेत्त्येव किञ्चित् । न च कोऽपि जीयोऽभिमतो विद्यते वा यो न जानवान, विशिष्टक्षयोपशमाभावाप नाम्यवादिनियमोऽपि तदेति । कार्मणस्य निरुपभोगत्व च