________________
द्वितीयविशिका
Avvv--
nirmarrrrrrrrrrrrr..
पञ्चादुपन्यासो युक्तियुक्त.। व्यवहारश्रुततामपेक्ष्य नैतदसङ्गतम् । तत्त्वतस्तु “मोडदिओवलद्धी सुयनाणं सेसय तु मइनाण। मुत्तूण दव्वसुअ अक्खरलभो अ सेसेसु" ॥१॥ [विशेषाव.] इति गाथाप्रतिपादितो महाभाष्यकाराभिमत पन्था उभयानुयायी, शास्त्रेषु चैष एवाभिसमीक्ष्यते पन्थाः, तत एवोच्यते-"विसिट्ठो वा मइभेओ चेव सुय" इति । इत्यलमतिप्रसङ्गेन । उभयोरप्यवधार्य तत्त्वं पक्षयो श्रुतस्य पश्चादेवोपन्यासो युक्त इति त्वविप्रतिपन्न पन्था । श्रुतस्य मतेरनन्तरमुपन्यास किमिति चेत्, स्वामि-काल-कारण-विषय-परोक्षत्वसाधर्म्यात् । श्रुतपक्षे मतिश्रुतयोनियतसहचारित्वेन यो मतिज्ञानवान् स श्रुतवान्, य श्रुतवान् स मतिमान् इति स्वाम्यनयोरेक एव। न चास्मिन् पक्षे एकादीनीति श्रुतमसङ्गतिमापाद्येत, केवलस्यैकस्यैवाभ्युपममात् । ये च केवले उत्पन्नेऽपि शेषजानसद्भावमामनन्ति, ते तु द्वयादीन्या पञ्चभ्य इत्येव स्वीकुर्यु. । तन्नाऽत्र तच्चर्चा। तथा कालतो यथा मतिज्ञान पट्षष्टिसागराणि यावदवतिष्ठतेऽप्रतिपतितं, तथा श्रुतमपि । ननु 'पूर्वमुदितमप्रतिपाति मतिज्ञानमेकीयपक्षेण तु श्रुतमपीति, किमिद परस्परविरुद्धमिति चेदनभिसन्धायाऽभिसन्धिमेतद्वचन, यत. “सामन्नओ मई च्चिय सम्मििठस्स सा मइन्नाण" इतिवचनादत्र मतिज्ञानाधिकारात् सम्यग्दृष्टिमतिप्ररूपणा,सम्यग्दृष्टित्वं च नाधिकमिति युक्तैव षट्षष्टिसागराणि यावन्मतिज्ञानस्थिति । एव श्रुतेऽप्यूह्यम् । ननु च कथ षट्षष्टिसागराण्यप्रतिपातितयाऽवतिष्ठेत सम्यक्त्वमिति चेच्छृणु-लब्धसम्यक्त्वः कश्चिदप्रतिपतितसम्यक्त्व एव पर्यटति भवे तावत्काल, पश्चात्तु प्रतिपतेत् सिद्धिसौध वाऽध्यारोहेत् । तदुक्त-"दो वारे विजयाइसु गयस्स तिन्नच्चुए अहव लाइ। अइरेग नरभविअ" इतिवचनात् विजयादिषु