________________
द्वितीयविगिका
१५६
www
अणत [तमो] भागो निच्चुग्घाडिओ चिट्ठड, अन्नहा जीवो अजीवत्तण पाविज्ज"त्ति (नन्दी० सू० ४२) अक्षरस्य केवलार्थकत्वेऽपि अक्षरानन्ततमभागस्य श्रुतत्वाऽव्याहते श्रुतमपि सर्वदा जीवस्यास्तीति प्रतिपाद्यते सिद्धान्ते यत , ततश्च तस्य नित्यत्व स्वाभाविकत्व च, तथापि तस्य विशेषोपयोगरूपत्वेनेन्द्रियविपयावगममन्तरा श्रुतोद्भवाभावान्मतिज्ञानजन्यत्वाच्च श्रुतस्य पश्चादेवोपन्यासो युक्तियुक्त । केचित्त्वक्षरादिमात्र न श्रुतम्, अन्यथा स्पार्शनादेरप्यक्षरानुविद्धत्वेन मतिविलोपप्रसङ्गात् । यत उच्यतेऽपि “न मतेरधिक श्रुत"मिति, किन्त्वङ्गप्रविष्टादिरूप सिद्धान्त एव श्रुतम् । तथा च वाच्यवाचकभावसस्पृष्टार्थग्रह श्रुतमिति श्रुतलक्षणमपि नाव्याप्तिमित्ति। अपेक्ष्यवैन पक्षमुक्त भाष्यकार "मतिज्ञानमिन्द्रियानिन्द्रियनिमित्तमात्मनो जस्वाभाव्यात् पारिणामिक, श्रुतज्ञान तु तत्पूर्वकमाप्तोपदेशाद् भवतीति" । एव चैकस्मिन् जीवे एकादीनि मत्यादीनि आ चतुर्यों ज्ञानानि भवन्तीति युक्तियुक्त स्यात्, आहुरपि च-"एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्य [तत्त्वार्थ १-३१]"इति । व्याख्यात च-"यथा कस्मिंश्चिज्जीवे मत्वादीनामेक भवति, कस्मिंश्चिज्जीवे द्वे भवत , कस्मिंश्चित् त्रीणि भवन्ति, कस्मॅिश्चिच्चत्वारि भवन्ति । श्रुतज्ञानस्य तु मतिज्ञानेन नियत सहभावम्तत्पूर्वकत्वात्, यस्य श्रुतज्ञान तस्य नियत मतिज्ञान, यस्य तु मतिज्ञान तस्य श्रुतज्ञान स्याद्वा न वेति" [भाष्यम् । पक्षे श्रुतज्ञानस्य नाऽक्षरादिका भेदास्तल्लव्धे शेषेन्द्रियैरपि प्राप्त शक्यत्वात् । श्रुत चानिन्द्रियस्यार्थो लिप्यक्षराणि च सङ्केतरूपाणीति न तावन्मात्रेण श्रुतत्वम् । तथा च-"श्रुत मतिपूर्व द्वचनेकद्वादशभेद [तत्त्वार्थ० १-२०]"मिति सूत्र "अगपविठियरसुय" इति च सङ्गच्छते इत्याचचक्षिरे युक्त्यनुसारिण । तत्मते स्पष्ट एव श्रुतस्य