________________
द्वितीयविशिका
१५५
क्तयुक्तिकलापात्। केवलस्य क्षायिकतासिद्धौ च पारिशेष्यादेव चतुर्णा क्षायोपशमिकता। आद्ये मोहोपशमात्तन्मूलत्वाज्ज्ञानावरणरय सर्वदाऽक्केिवलादेतद्वेदननियमात् केवलोपलब्धिनियमाच्च नैतानि औपशमिकानीति तु पूर्व निर्णीतमेवीपशमिकव्याख्यानावसरे, तन्न भूयश्चर्च्यते। ननु च मतिश्रुतादे क्रमेणोपन्यासो यथाकथञ्चिद् अस्ति वा प्रयोजनमिति । विद्यत एवेति ब्रूमः। कि तदिति शृणुत सावधानीभूय-पञ्चस्वपि ज्ञानेषु मतिज्ञान तावत् स्वाभाविक, जीवस्य चेतनारूपत्वात् । शेषाणि तु परोपदेशेक्षयोपशमक्षयविशेपनिवन्धनानि श्रुतादीनि । न च वाच्य मतिज्ञान तावदिन्द्रियानिन्द्रियनिमि , इन्द्रियमनासि चाऽवाप्तपर्याप्तभावस्थेन्द्रियपर्याप्तस्य वा केवलानीन्द्रियाणीति कथ स्वाभाविक तत्, कथ वा हृषीकापप्तिस्यापि जीवस्येति । यतोऽनिन्द्रियशब्देन मनोज्ञानमोघज्ञान च द्वयमपि गृह्यते, गुरुशब्दव्यपदेशेन तज्ज्ञापनात् । न चैतत् स्वमनीपिकाविज़म्भित, यदाहुर्भाष्यकारपादा --'अनिन्द्रियनिमित्त मनोवृत्तिरोघज्ञान च" इति । स्वीकर्तव्यमेतदेवम्, अन्यथा जीवस्योपयोगस्वभावव्ययापत्ते । उपयोगश्च न- साकारानाकाराऽन्यः । न च भवदीयनीत्याऽनाकारशब्दाख्येयदर्शनसम्भवोऽपि । प्रोक्तशैल्या तु दर्शनेऽप्यचक्षुर्दर्शनस्य शेषेन्द्रियौघदर्शन द्वयमित्यर्थाख्यानेन तत्र सम्भव स्यादेवेति । न चैतत् सिद्धान्ताननुपाति । यत सिद्धान्तेऽपि सिद्धान्तितमेव जीवस्य ज्ञानदर्शनयोरप्रतिपातित्व पर्याप्तापर्याप्तलक्षणयोरुभयोरप्यवस्थयो । तथा चादी मतिज्ञानमेवोपन्यसनीयम् । न च वाच्य यथा मतिज्ञान स्वाभाविक तथा सञ्जाया नित्यत्वाभ्युपगमात्तस्याश्चाभिलाषरूपत्वात्तस्य चाक्षरोल्लेखरूपत्वात्तस्य च श्रुतत्वात्तदपि नित्यमेवाभ्युपेय स्वाभाविक चेति चेत् । सत्य, भवदीयापेक्षया "मव्वजीवाण पि य ण अक्खरस्स