________________
द्वितीयविशिका
१५३
wwwnwww
प्रत्यक्षादिना किमिव भिन्नेन प्रमाणेन ? । न सम्भवस्य सर्वथा प्रामाणिकता, विसवादस्यापि दर्शनादतथाविधेन विहितस्य तथाविधस्य तु पट्वभ्यासात्तथाभवने न प्रमाणान्तरता। अन्यथा शतशोऽभ्यस्तव्याप्तेरन्तरापि व्याप्तिस्मृतिमनुमानोत्पत्ते अभ्यस्तरूप्यकादेश्च झटिति सत्येतरत्वावधारणदर्शनाच्च व्याप्त्यवग्रहेहादिविलोपापत्तेश्चाभ्याससंस्कृतवद्धेहि विशेषेणावगमान्न तानान्तरमभ्युपगम्यते । अन्यथा पर गताद्या प्रत्यक्षादीनामपि भेदा भवेयु । यहा-सम्भवम्य पाथक्याभिगमे न काचिन्नो हानि , कर्मजाया वुद्धेः कथञ्चित्तथात्वात् । कथं च बुद्धे कर्मजत्वमिति चेद, अभ्यासेन पाटवोपलब्धे प्रत्यक्ष न कथञ्चनापि सङ्गतिहीनता । प्रमाणप्रमेयव्यवस्था ह्यनुभवानुरोधेनैव क्रियते, अनुभवबाधस्य सर्वेभ्यो दुस्तरत्वात् । अनुभवश्चाभ्यासेन वुद्धे पाटवोपलम्भे स्फुटतर एवेति । ह्रस्वदीर्घादिज्ञान च यद्यपि न प्रत्यक्षम्, एकतरदर्शनेऽपि तथाज्ञानाभावात्, परदर्शन एव पूर्वज्ञातस्य योर्हस्वदीर्घयोरेकतरेणाऽध्यवसाय । न च परदर्शनाऽनेहसि पूर्वदृप्ट विद्यते, न वा पूर्वदर्शनकाले परवस्तुनो दर्शन, अध्यवमितिश्च समुदितयोरिति भिन्नमेवापेक्षिकमभ्युपगमनीयमित्युच्यते यत् । तदपि नैव समजसम्, मानसत्वादेतस्य । यत् परिमाण पूर्वस्याभूत दितो दृश्यमानवस्तुपरिमाणान् न्यून वाऽधिक वा, ततस्तदस्मात् ह्रस्व वा दीर्घ वेति प्रतिपचते, पश्चाद् द्वयोरपि स्यात ह्रस्वता यदि, ततोऽपि दृष्टिपथमायाति महदिति नैतावता भिन्नप्रमाणता । अन्यथा परममहीयसो लघीयसो वा यावद्दर्शन न जायते पूर्वस्य, न स्यान्निर्णयो, निर्णये वा प्रामाणिकता, समूहालम्वनवद्यावज्ज्ञाननिर्णेयत्वाऽऽपातात्तस्य । तथा च कदापि निर्णयो नैव भवति महीयसो लघीयसोऽपि च दर्शनम्य भविप्यन्त्या सम्भावनेन निर्णयाऽभावात्, द्वयोनिर्णय