________________
... .. १५२
द्वितीयविगिका
~
~
प्रमाणता? 1 अन्यच्च-ज्ञाते घटे पूर्व पश्चात पष्टस्तत्र पंटो न वेति, तदोत्तरयति द्रष्टा-नेति । भवता हि मतेऽभावस्यायं विषयोऽधिकरणं च परोक्षमिति कथड्डार स परिच्छिन्द्यात् तत्रत्य पटाभाव प्रतिपादयेच्च । अस्माक तु घटस्यैव पटाभावरूपत्वात्तत्परिच्छेद एव गतार्थता। अन्यच्च-अभावाभावस्य भावरूपत्वाद् घटादयोऽपि भवतामभावप्रमाणविषया एव, नतु प्रत्यक्षादिविषया । यतोऽभ्युपगम्यते 'प्रमाणपञ्चक यत्रे'त्यादि भवद्भिः। अन्यच्चभावाभावोऽभाव इति स्वीक्रियते। तथा चाभावेनैव 'प्रमाणेन भावास्तदभावाश्च यद्यवगम्यन्ते, स्यात्तदा तस्याभावावगन्तत्वम, तथा च प्रत्यक्षादीनि निरर्थकान्येव, । अनेन भावानामप्यवेगमात् । विप्रतिहन्यते च 'प्रमाणपञ्चक'मित्यादि तथा सति । अन्यच्चअभावेनाभावावगम कथ नेन्द्रियादिना? तस्य प्रत्यक्षत्वाच्च । न च वाच्य प्रत्यक्ष सत् परिच्छिन्द्यादसत्तु न तेन परिच्छिद्यते, किन्त्वभावेनैवेति, तथा सति तस्य मानसत्वाभ्युपगमात् । अस्तु चेत् कथ नेन्द्रियविचारमन्तरा मानसमपि च प्रत्यक्षमेव व्यावहारिकमिति कथमभावम्य भिन्नमानता? | तन्नाभाव प्रमाणान्तरम् । कथ तज्ज्ञानमिति चेदनुमानादिना भवतु । तथा च धूमाभावादिसाधनमपि वह न्यभावादिहेतुना व्याप्तिपुर सर भविष्यति । भविप्यति वैजात्यादिज्ञान गतशुद्धिभावशब्दादिज्ञान चापि यथायथं स्वस्वज्ञानसाधनसहकृतालोचनात स्पष्टं भविष्यति । व्यापाराभावमानत्व च भवेत् अन्यथा भवदीयाभ्युपगमानुयायित्वे स्वीकर्तव्यम् । न च प्रत्यक्षादीनि भिन्नानि ज्ञानपञ्चकात, न चानुमानादीनि मतेरिति नामावस्याप्रतिपादनेन न्यूनता प्रस्तुतसूत्रस्येति । सम्भवमपि च मान न भिन्नतामहति । अवयवसङख्यावगमरूप हि तद् अवान्तरनया न चानधिगता सा ज्ञायते, अधिनतत्वे च तस्या