________________
द्वितीयविशिका
१५१
भावे इति चेत्, न, किञ्चिद्गगनस्यैव कुसुमवत्त्वादर्शनेन तथा सुखेन प्रतिपादयितु शक्यत्वात्, पर भवद्भिरेव चिन्तनीयमेतत् यदुत-न प्रतियोगिज्ञानमित्यादिनियमेन कथमापादनीयम् ? नात्र गगनकुसुम न वा तमो द्रव्यमिति, प्रतियोगिनोरेवाभावाद् । अत्र नन· क्रियान्वयित्वेऽप्यभावस्यैव प्रतीते.। न चाभावस्यातिरिक्तत्वाभावे कथ कण्टकादिरहिते भूतले तथाज्ञानेन निरडकुशा प्रवृत्ति रिति वाच्यम्, न तत्र कण्टकादिसद्भावाऽसत्तामवलोक्य तथाप्रवृत्तिः, किन्त्वनुभवसिद्धा एव सामान्यप्रवृत्तिनि शङ्का,कण्टकादिना स्खलना तु क्रियत एव, तथा दृष्टपथेऽपि प्रवृत्तिर्जायते निरङकुशा। न हि पथि प्रवर्त्तमानो यावदरिष्टाभावमवकल्पयति, किन्त्वरिष्टे दृष्टे सम्भाविते वा निवर्तत इति, तथाऽस्वीकारे च कण्टकादीनामनेकेषा निरङकुशप्रवृत्तिकारणता भिन्ना प्रत्येक वाच्या अनन्तकारणता च निरर्थकव सति स्यात् । अस्माक तु कण्टकादीना निरङकुशप्रवृत्तिविघातकतेति सुमहल्लाघवम् । न च कथ प्रतिबन्धससर्गाभावस्य जनकत्वेन लाघवं भवतामपीति । न नूतनषा कल्पना, सर्वत्रोपयोगित्वादस्या । तथा च स्पष्टमेव लाघव, भावाश्रितत्वे तु सम्प्रति ज्ञायमानेऽभावस्य किं भिन्नत्वेनाश्रितत्वमविष्वग्रूपतया वा? । आये, भिन्नत्वायोगाद्वयाघात.। अन्त्ये तु स्पष्टवाधिकरणात्मकता। न च वाच्यमभावस्याधिकरणात्मकत्वे स्पार्शनेन ज्ञातेऽधिकरणे तद्वृत्तिरसाभावोऽपि ज्ञायेत तेनेति । सडख्येयप्रत्यक्षेऽपि सडख्याप्रत्यक्षाभाववत् स्वाद्यमाने आम्रादौ रूपज्ञानाभाववदुपपत्ते । न हि तेनाधिकरणे भिन्ने वा, यद्यदिन्द्रियवेद्य तत्तेन वेद्यत इति नियमस्तु सामान्य एव, कथमन्यथा ज्ञाते घटमात्रे कुशूलाज्ञानिनापि प्रोच्येत पृप्टेन केनापि कुशूलो नायमिति प्रतिवचो, न तत इद न्याय्यमभावस्य भिन्नताभिधानम् । तथा च कथमेवाभावस्य भिन्न