________________
द्वितीयविशिका
१५०
प्रागभावप्रध्वसाभावयोस्तावन्मत्तिकाकपालरूपत्ताऽनुभूयते । न च वाच्य भावावेव तौ कथमभावी, भिन्नस्याभावस्यैवाभावात् । यस्मिन्नेव न घटाकारो भूतपूर्वो भूतपूर्वो वा स एव मृदाख्यो भाव उभयत्रापीति । तत एव च प्रत्यभिज्ञापि मृदः तस्या अय, तस्य वेय कपालद्वयीति । अत्यन्ताभावो नाधिकरणात् सर्वथा भिन्नः, तथासत्यधिकरणानवलोकिनोऽपि तदवगमप्रसक्तेः । न च वाच्य व्यतिरिक्ताभावाभावे कथमत्र घटाभाव इति प्रतीतिरिति केवलस्य भतलस्यावलोकनेनाभिप्रेता दर्शनमात्रेण तथोच्चारात, अन्यथा कथमनन्तात्यन्ताभावे सत्त्वे केपाञ्चिदेव प्रतीति । ननु तज्ज्ञाने प्रतियोगिज्ञानस्य कारणत्वमिति चेत्, न, तदपि प्रतियोगिनामप्यनेकेषामस्त्येव ज्ञान भूतपूर्व, पर यदेवाभिप्रेयते न दृश्यते च तत्तदा तदभाव प्रतीयते,अतिरिक्ताभावे घटपटादिवद्विलोक्येत स्वतन्त्रम् । न च स्यात् प्रतियोगिज्ञानापेक्षा, अन्यच्च-अभाव स्वरूपेण स्थाष्णुतामादधीत तत्रान्यतरेण वा सम्वन्धेन ? । आये, स्पष्टमेवाधिकरणात्मकत्वम्, कथमन्यथा स्वरूपेणावस्थान तत्र ? । न च भिन्न. प्रमीयते। अन्यतरेणावस्थाने तु स्पष्टवाभावताक्षति । अन्यच्च अभावस्य गन्धादिशून्यत्वान्नात्र घटाभाव इंति ख्याप्यते भवद्भिरपि घटसत्त्वदशायाम् । यद्वा-घटो न घटाभाव इति । तथा चाभावाभावस्य भावरूपतापत्तौ कथड्डार निर्वाहः घटे गन्धवत्त्वादेरिति चिन्तनीयम्। ननु भवतामपि भावे गन्धादि भावे इति कथ उभयरूपत्वाद् घटादेरभावेऽपि गन्धादिमत्त्वप्रसङ्गादिति चेत्, सत्य, यथा हि घटे विद्यमान रूप न रसादिमत्, न चापि रसादिरहित भिन्नदेशानवस्थानेन, तथाऽभावस्याप्यङ्गीकुर्यु , को विरोध ?। तत्त्वतस्तु नाय नियम एव प्रामाणिकोऽभावस्यैव व्यतिरिक्तस्याभावात् । ननु गगनकुसुमादिस्थले किं वाच्यमभावस्यातिरिक्तस्या