________________
द्वितीयविशिका
-: १४९
स्यापि प्रणिगद्यमाना भिन्नप्रमाणता- न जाघटीति । कथाकार तर्हि परिगणना तदभावान्यनेति सङ्गच्छते जेगीयमानम् । यतो विचारणीय तावत् प्रथम कि प्रमाणत्व नाम प्रमाकरणत्व स्वार्थव्यवसायित्व वा? यत् किमपि भवतु, तथापि भावरूपमेव तदित्येतावन्निविवादमेव । तथा च स्पष्टमेव न तदभावव्यवहार्यतामेति । अन्यच्चप्रमाण हि प्रमेयमवगमयन्नवाप्नोति सद्भावव्यपदेश्यताम्, इद किमवगमयेत् ? न तावत्स्पर्शादि, तस्यैन्द्रियकत्वेन प्रत्यक्षविपयत्वात् । नापि प्रतिवन्नप्रतिवन्ध धूमादि नाऽतीन्द्रिय हुतागनादिवत् परोक्ष सिपाधयिपित, क्षममवगमयितुम्, व्याप्त्यादिनिबन्धनत्वात्तदवगमस्य। तथा अन्यदपि वाच्यादिकमवगमयितु नाऽलम् । तथा च प्रमेयाभावे कथमिव प्रमाणताऽस्य? । अभाव एवास्य प्रमेय इति चेत् । ननु-किं भावव्यतिरिक्तोऽभावो भावाश्रितो वा परिच्छिद्येत?। आद्ये,अन्धस्य-सर्वाभावावगति ,तेनानवलोकनाद् भावानाम् । अथोच्येत योग्यताया सत्यामिति चेत्, सा कि कुर्यात् येन प्रविश्यते । तत्त्वतःतु, प्रत्यक्षादिनिवृत्तिरेवाभावतयाऽभिमता। निवृत्तिश्च न ज्ञानरूपा, यया प्रमाणता तस्य व्यात्रियमाणा शोभेत । अथ भावव्यतिरिक्त' इत्यस्य भावाद्भिन्न इत्यर्थो न तु भावाभाव इति चेत्, ननु तथापि नैव-मुन्दरम्, तस्य सत्त्वेनाभावावगमाविषयत्वात्। किञ्च-प्रत्यक्ष निवर्तमान यन्निवृत्तिमधिगमयेत् सैवाभावमेया अ-यापि वा । आये, अनुमानादिनिवृत्तेरन्यदपि प्रमाणान्तरमनुगमनीयम् । अन्त्ये च, धूमाभावाद्यपि यथायथ ज्ञेयम् । न तत्र च प्रयत्नकणिकापि विधेया स्यात् । न चैवमनुभूयते, व्यापकनिवृत्त्यैव व्याप्यनिवृत्तिसमासादनात् । न चाभावोऽस्ति व्यतिरिक्त , समग्रस्यैव वस्तुस्तोमस्य भावाभावस्वरूपत्वात् । य एव घटः स एव पटाभाव.। न च वाच्यमन्योन्याभावस्य तथात्वे नान्ये तथाविधाः।