________________
द्वितीयविगिका
१४८
(योग्य) बहिर्वत्तित्वंसाध्यस्य, मृतादेरपि तथाकल्पनप्रसङ्गात् । जीवन च गेहादर्शनेनैव सन्दिग्धताभूमिमारूढम्, ततस्तद्विशिप्टमपि न गेहावृत्तित्व वहिर्वत्तित्वसाधनायाल, सन्दिग्धविशेषणत्वेन हेतोआंगासिद्धे साध्यसिद्धेपि सप्रत्यूहत्वादिति । तदपि न समञ्जसम्। यतो यदि तावज्जीवनमेव सन्दिग्ध तहि कथमर्थापत्तिरप्युन्मज्जेत्। न हि गेहाभावमात्रेण देवदत्तस्य वहि सद्भावो निश्चीयते कल्पनया, किन्तु जीवनस्य कुतोऽपि ज्योतियादिना निर्णये एव । तथा च काऽनुमानेऽपि क्षतिः ? यतो जीवने निश्चिते गेहात्तित्व गमयेदेव बहिर्वृत्तित्वम्, जीवत परिमित्तक्षेत्रवृत्तित्वनियमात् । एवं चायु सत्तावैशिष्ट्यान्वित गेहावृत्तित्वं वहिर्वृत्तित्व साधयेदेव, वहिर्वृत्तित्वसन्देहे च न किमपि क्षीयते न , सन्दिग्धस्यैव साध्यत्वेनाम्नायमानत्वात् । प्रतीत च न स्यात्साध्या "अप्रतीतर्मनिराकृतमभीप्सित साथ्य"मिति [प्रमाणनयतत्त्व] वचनप्रामाण्यात् । गेहावृनेर्जीवनान्यथानुपपत्ति रेव' वहिर्वृत्तित्व साधयेत् । तथा कथ गेहाभावो वहिवृत्तिल साधयेदित्यपि, निरस्तमेव । न चात्र नान्वयिता व्याप्तिरपि, जीवत कुत्रचित्तित्वनियमाद्,गेहावृत्तित्व वा अध्यक्षसिद्धमिति पारिशेप्यावहिवृत्तित्वसिद्धिः सिद्धिसौधमंध्यारोहन्ती नानुमानादापत्त्या विलम्वयितु गक्या। अन्यच्च-कल्पनापि नियमान्दिता स्यात् अन्यथा वा ? । आये, स्पष्टमनुमा, अन्त्ये, न यथार्थता । न च वाच्य श्रुतादेरपि कल्पना तु भवति, लिङ्गत्वं त्वध्यक्षादेवेति । लिङ्गस्थापीतरप्रमाणसमधिगम्यत्वाऽऽम्नायात् तत्वतो लिङ्गनिश्चयस्यवानुमानहेतुत्वात् । अत एव न लिङ्गमेवानुमानहेतुतयाऽऽम्नावते आम्नाये, किन्तु लिङ्गनानमेवेति न श्रौतार्थापनि कल्पनायामपि क्षतिः । तत्त्वतस्तु तकादेवार्थापत्तिभावे न कोऽपि विरोध । उभयमप्येतन्मतिज्ञानमिति तु निर्णीतमेवेति । अभाव