________________
द्वितीयविशिका
१४७
विचिन्तय-यथोपमानं तावन्न भिन्न प्रत्यभिज्ञानात्, सादृश्यज्ञानमात्रतया भिन्नत्वे तु वैसादृश्यस्यापि हेतु वाच्यं स्यादन्यदपि, तदभावज्ञानाच्चेत्तत् तदा वैसादृश्याभावादेवेद न तत्र कि निबन्धन ? प्रवृत्तिनिबन्धनमिद चेद्, अपर कि न निवृत्तिनिबन्धन प्रवृत्तिनिबन्धन चापि । सादृश्यदर्शनोत्थज्ञानत्वमप्यस्य प्रत्यभिज्ञानत्वमेवावगाहते धर्मप्रत्यभिज्ञानेन धर्मिप्रत्यभिज्ञानात्, तन्नातिरिक्त पूर्वोक्तादुपमान, [न] तेन तदन्तर्भावविचारोऽपि युक्तियुक्त । एवमर्थापत्तिरपि न भिन्नाऽनुमानात् तर्काद्वा। तथा च तत्र क्वचित्पक्षादिविकल्पाभावेऽपि न क्षति.। न च विचारशून्यानामभ्युपगम्यते सा, विचारवतां च तर्कवलादुद्भवन्ती सा न तर्कादतिशायिनीति । तर्कश्चाननुभतेऽपि वस्तुनि वस्तुधर्मपर्यालोचनयोद्भवत्येव । न च सर्वथाऽसति प्रवर्ततेऽर्थापत्तिरपि, अन्यथाऽनुपपन्नोऽर्थोऽदृष्ट कल्पयेत्तदुपपादकमित्येवंलक्षणा वाऽर्थापत्तिर्नानुमानप्रथामतिकामति, अन्यथाऽनुपपन्नहेतुप्रभवत्वात्तस्य, व्याप्त्याद्यप्रतिसन्धानं पाटवादेवेति । भवति ह्यभ्यासपाटवादन्यत्रापि स्फुटतामन्तरेणाप्यवग्रहेहयोरपायोद्भव.। न चैतावताऽवग्रहेहयोरन्तरेणैवापाय इति निश्चेतु शक्यम्, अनवगृहीतस्येहाविषयमनीहितस्य चापायविषय समवतरीतुमेवाशक्यत्वात् । तद्वदत्रापि पक्षधर्मताव्याप्त्यादिसमुल्लेखस्फुटताभावेऽपि नानुमानभिन्नताऽस्याभिगन्तव्या। तत्त्वतस्तु हेतुपक्षवचनात्मकमेवानुमानमपि व्युत्पन्नानपेक्ष्योच्यतेऽनूचानप्रधान. । न च सर्वथाऽत्र न तदुल्लेखः, तच्छन्दोल्लेखाभावस्त्वनुमानेऽपि सम एवेति नाभिनिवेष्टव्यमापत्तिप्रमाणपार्थक्ये विचारविशारदः। यच्चोच्यते यद्यपित्तिरनुमानरूपा समभिगम्यते, किं लिङ्ग तत्राभिमन्तु योग्यं? यत्र गृहवृत्तित्वाभावेन देवदत्तस्य वहित्तित्वकल्पना ह्यापत्तिस्तत्र न गृहवृत्तित्वाभावो हेतुतयाभिप्रेतं