________________
द्वितीयविशिका
१४६
युज्यत इति व्यभिचरतीति प्रत्याख्यायते चेत्क किमाह, न हि यावदनुमानस्य प्रामाण्यमाम्नायते आम्नायवेदिभिः, किन्तु यदेव सद्धेतुप्रभव नि शेपदोषापोहित तदेव । व्यभिचारित्वज्ञान प्रतिवन्धकं चेत्, प्रत्यक्षस्यापि किं न तथात्वं? व्यक्तिविशेषस्यैव तथात्वानुसन्धानादिति चेद्,अत्रापि न यावदनुमानस्य व्यभिचारित्व प्रतिसन्चत्तं, व्यक्तेस्तत्प्रतिसन्धाने तस्या एव प्रत्यक्षव्यक्तिवदप्रामाण्य भवन्न केनापि निवार्यते । न लौकिक नाभ्युपगम्यतेऽनुमान, किन्त्वतीन्द्रियात्मादृष्टादिसाधकमिति चेत्, तदपि चेत् सद्धेतुप्रभवमभ्युपेयमेवाविसवादिपदार्थाभ्युपगमतत्परै । असद्धेतुप्रभवतु लौकिकमपि नैवाभ्युपेय विचक्षणैरिति । कोलौकिक-लोकोत्तरयो दोऽभिप्रेतो बुद्धिमद्भिरतीन्द्रियसाध्यके प्रतिवन्धाप्रतिपत्तेरिति चेत्, न सा चेत्, क. कथयेत् प्रमाणभावतामस्य, पर गत्यादिनाऽतीन्द्रियस्यापि मनसो लक्षणाद् । यदि प्रतिवन्धप्रतिपत्तिस्तत्रावितथा तदा काऽवितथताऽस्य, येनाभ्युपगम्य नास्य प्रामाण्य ?। अतीन्द्रिय मन इति • तद्विपयकस्यास्य प्रामाण्यानभ्युपगमे नैव रात्री पिधेय गृहद्वारमपहरणवुद्धे प्रत्यक्षाभावाञ्चौरस्याप्रत्यक्षत्वात, विहिते हि चौर्य प्रत्यक्षभावात् वार्त्तमानिकत्वात् प्रत्यक्षस्य, कल्पनापि विनाऽनुमान न प्रभवत्युद्भवितुम् । न च वस्तूना स्वत्व वाच्य, विशिष्टचिह नादिना स्वत्वस्यानुमेयत्वादेव । किञ्च-विनाऽनुमानप्रामाण्य कथ स्वप्रसूसद्भाव वेत्सि स्वप्रसव वा?, अवेदने चानयो स्पष्टैव कान्दिशिकता। तथा च न स्मृतिप्रत्यभिज्ञानतर्वानुमानानि मतिज्ञानमतिशेरते इति तत्त्वम् । ऊचुश्चानूचाना अपि-"मतिः स्मृति सज्ञा चिन्ताऽभिनिवोध इत्यनर्थान्तर"मिति । ननु मा भवन्तु स्मृत्यादीनि पूर्वोक्तयुक्तेर्मत्यतिगायीनि, परमपमानादीनि तथा भवन्ति न निवारित गक्यानि शक्रेणापीति चेत, मा हि त्वरित्वम् । यतो