________________
द्वितीयविगिका
कथ च विना तर्केण व्याप्तिग्रहोऽपि देवानाप्रियोणाम् । यतो न हि सहचारदर्शनमात्र व्याप्तिनिश्चायकम्, वज्रस्यापि पार्थिवत्वेन लोहलेख्यत्वानुमानापातात् । किन्त्वविनाभावनिश्चयेनैव व्याप्तिनिश्चयः। न, चासौ विना तर्कमित्यवश्यमभ्युपेया. प्रामाणिकता तर्कस्य । अप्रामाण्ये च तस्य सुतरा व्याप्तेरप्रामाण्यापत्त्याऽनुमानमानप्रामाण्यव्यवच्छेद. । सोज्य तर्कोऽप्य हापरनामधेयो नातिरिच्यते मतिज्ञानाद् एतस्य मनोज्ञानरूपत्वादेव । न च वाच्यं विचाररूपोऽय न तु ज्ञानरूप इति । तथा सति ज्ञानमात्रस्यैव प्रत्यक्षादेस्तथात्वापातात् । यथा हि स्म-या जानामीति स्मरामीति स्मारयामीति चानुभव. स्मृते. सिद्धिश्च, तथैव तर्केण वेद्मीति तर्कयामीति प्रत्यवतारितस्तर्केण तर्के वेति सुप्रसिद्धस्वस्वानुभवात् स्पष्टवाभ्युपेया तर्कस्यापि स्मृतेरिव, ज्ञानरूपता प्रमाणरूपता चेति । तदेवविधस्तर्कोऽपि नातिगेते मतिज्ञानस्वरूपम्, हृपीकमनोनिमित्तत्वात्, तत्स्वरूपस्य च मतिज्ञानत्वात् । यत आहु सङग्रहकारिपादा -"तदिन्द्रिया नन्द्रियनिमित्त"मिति। तथा साध्याविनाभुवो हेतोः साध्यनिश्चयरूपमनुमानमपि मतिरूपमेव प्रतिपादिताया एव युक्ते , न चानुमानमप्रमाणम्, तथावचनस्यव अनुमानाप्रामाण्येऽप्रामाणिकत्वेन अनुमानप्रामाण्यध्रौव्यात् । तत्प्रसञ्जनमपि परेपा नाप्रमाणेन, पर्यनुयोजनमपि नाप्रामाणिकेनाऽसता वा गगनकुसुमकल्पेन । अन्यच्च-न स्याद्वचनीय वाक्यमपि, प्रामाण्य चेन्नाभ्युपगम्यतेऽनुमानस्य, पराभिसन्धि सावधानता शुश्रूषा वाऽनभिसन्धाय तत्प्रयोगस्य मदोन्मत्तवचनत्वापत्ते । कार्येव च न जीवजीवनप्रगुणजीवनपानादिका क्रियापि विनाऽनुमानप्रामाण्यवादम् । न च ससशया' तत्र प्रवृत्तिरनुभूयते, येन सगयात् स्यात्प्रवृत्ति., न च सशयोऽप्यभावे. प्रामाण्यस्य घटाकोटिमाटीकते, स्मृतिरपि च नाप्रतिबन्धशून्ये