________________
द्वितीयविशिका
१४४
चेन्न, तस्याप्यनुभवस्मरणकसङ्कलनारूपत्वात् । दृष्टे महिपे स्मृते च सादृश्यादिना गोपिण्डे वैचित्र्यावगमे च स्पष्टमेव विजातीयोऽय गोपिण्डादिति भवेदिति ज्ञानम् । न च वैचित्र्यावगमश्च कथमिति वाच्यम्, पिण्डद्वयधर्मालोचनाया तस्य स्वतो भानात् । न रूप रसतो विजातीयमित्यत्रोपयुज्येत प्रमाणान्तरेणाभावस्य साजात्याभाववोधनाभ्युपगमेऽपि वैजात्यसत्ताबोधन तु मनसैव विकल्पनीयम् । न च साजात्याभाव एव वैजात्यमिति तत्तदभावेन बोधनीयतामापयेत, तस्य निपेधमुखेनैव बोधनात् । तथा च स एवाय जिनदत्त , तज्जातीय एवाय गोपिण्डो, गोसदगो गवयो, गोविजातीयो महिष इत्यादीनि सर्वाण्यपि प्रत्यभिज्ञानान्येव । एतदपि मतिज्ञानमेव, पूर्वानुभूतस्येदानीमनुभूयमानस्य च सङ्कलनारूपत्वेन श्रुतभिन्नतयेन्द्रियानिन्द्रियोद्भवत्वेन चेति । तर्कोऽपि न व्यभिचरति मतिज्ञानताम् । यतस्त्रिकालीकलितसाध्यसाधनाद्यालम्बनज्ञानरूपो हि स । तच्च क्वचिद् वह निधूमादी ज्ञानपञ्चकेनानुपलम्भद्वय-साध्योपलम्भसाधनोपलम्भ-साध्यानुपलम्भ-साधनानुपलम्भात्मकेन । न चैतत्सर्वमवग्रहाद्यन्तरा हृषीकाऽनिन्द्रियसाधनमन्तरा च । न च वाच्य तर्कस्यामानतैव युक्ता, विकल्परूपत्वात्तस्य । मेयाधीना हि मानप्रामाण्यसिद्धि । न चास्ति मेयमस्येति । सर्वथाऽसता शशशृङ्गाकाशकुसुमवन्ध्यास्तनन्धयादीना विकल्पाविपयत्वेन सर्वथा विकल्पस्याप्रमाणत्वाभावात् । अन्यच्च-असति तर्कस्य प्रामाण्ये कथडार व्यवस्थाप्येत व्यवस्थाप्रियैरपि प्रत्यक्षस्यापि प्रामाण्य, प्रमेयाव्यभिचारित्वज्ञानरूप हि तत् । न च विना तर्केण यथावनिश्चीयते च तत् । न च दृष्टेऽपि प्रत्यक्षेण विपये तर्कशून्यो ज्ञातुमलम् , इप्टानिप्टोभयानुभयादिमत्तादिप्रत्यक्षवत्तस्याकिञ्चित्करत्वापत्ते ।