________________
द्वितीयविगिका
१४३ mmmmm ज्ञानमुच्यते। व्याहत चेदं प्रत्यक्षमेव, यतो महानसीयो वह निसाधनो धूमोऽन्य , अन्यश्च पार्वतीय इति कथ तयोरैक्यं ? । तथा सति च कथ सोऽय वह निसाधन इति ज्ञानमवाप्नुयात् प्रामाण्यभूमि ?। पूर्वं हि ये जिनदत्तशरीरेऽवयवास्ते नाधुनेति कथ तत्रापि स एवाय जिनदत्त इति स्यात्प्रामाणिक सलाप ? । तथा च निर्णीतप्रामाण्यस्य लक्ष्यस्य बाधे लक्षणमेव दूपित स्यादिति । स्पष्टा अप्रामाणिकी प्रत्यभिनेति चेत्, न, आद्याया तज्जातीय एवायमित्यादिवदालोचनेन दृप्टपूर्वसजातीयताया प्रान्त्ये च तदभिधानाभिधेयताया तात्पर्यात् कथञ्चिद्भेदाभेदवादे च न कथञ्चनाप्यसङ्गतमेव, कथमन्यथोपलक्षणाह वानादिक व्यवह्रियमाण युक्तियुक्त स्यात् ? । न च वाच्य वर्त्तिमानिकानुभवातीतानुभवस्मरणसङ्कलनारूपस्यैतस्य प्रत्यभिज्ञानस्य कथमिव भिन्नत्वम् ? । तथात्वे च द्वीन्द्रियादिग्राह्यविषयज्ञानाना स्मृतितक्यादीना च भेदेन भेदेयत्ता विशरारुताप्रसङ्गादिति चेत्, सत्य, परं भिन्नोऽनुभवो भिन्नमनुभूतस्मरण च यत्र युगपदुदपादिपाता यद्यपि, तथापि न तत्र प्रत्यभिज्ञानस्योद्भव , किन्तु ज्ञानद्वयस्य भिन्नस्यैवेति पृथक्ता प्रत्यभिज्ञानस्य । अत एव चालोको वह निव्याप्यो धूमवाँश्च पर्वत इति सतोरपि स्मरणानुभवयो नुमाप्रथा प्रथते । न च द्वीन्द्रियादिपरिच्छेद्यमेव, प्रत्येक स्वविषयनिश्चयविधानप्रत्यलत्वात् हृषीकाणा । परिमाणादिनिश्चयोऽपि यथास्वमेवेति न द्वीन्द्रियादिविपयग्राहकाधिक्यम्, स्मृतितर्कादीना च नैकत्रीभूय विषयवेदन विशिष्टं समस्ति, येन पृथगेज्ञानाङ्गीकारप्रसङ्गेन भेदेयत्ता विशीर्येत । केचित्तूपलक्षणमिदमित्याहु । तथा चान्यज्ञानसयोगेऽपि नैव क्षति। नन्वेव साजात्येन प्रत्यभिज्ञानस्य सिद्धौ वैजात्येनान्यदपि कि न सिध्येदिति .