________________
द्वितीयविंशिका
१४१
पेक्षिकादिज्ञानानामनेकेषा सद्भावात्कथ पञ्चैव ज्ञानानीति, कथ च क्षायोपशमिकत्व चतुर्णामेवेति । यत इन्द्रियानिन्द्रियोद्भवः समग्रोऽपि बोधो मतिरेव, केवल विहाय श्रुतम् । यद्धा-अवग्रहादिक्रमोत्पन्नो बोधो मति । तथा च विहायतिह्यप्रातिभज्ञाने शेषाणि सर्वाण्येवविधानीति न मतित्व व्यभिचरन्ति । तथाहि-स्मृतिस्तावत् पूर्वमवगृहीत ईहितोऽपेतो धृतश्च योऽर्थ तस्यैकसम्बन्धिज्ञानादिभिरुद्भवन्ती कथमिव मतिज्ञानता व्यभिचरेत् ? । पठ्यते च स्पष्टमेव स्मृतेर्मतित्वमभियुक्त । इत्थ निश्चितस्यैवाविच्युतिवासनास्मृतिरूप धरण धारणेति अवग्रहादिक्रमेण पूर्वमवधृतस्यैव तदित्युल्लेखेन स्मृतित्वात् । उदाह्रियते च तत्तीर्थकरबिम्वमिति । ननु मतिजन्या स्मृति स्यान्न तु मतिरेव, यतोऽवग्रहादि पूर्वमेव जात नाधुनेति चेन्न, मतिजन्यस्यापि मतित्वात् श्रुतजन्यस्मरणस्य श्रुतत्वमेव । यद्वा-अस्तु तस्यापि मतित्व "अवखरलभेण समा ऊणहिया हुति मइविसेसेहिं । ते उण मइविसेसा सुयनाणभतरे जाण -॥१॥" इति परममुनिवचनप्रामाण्यात्, श्रुतोपग्राहकत्वेन तस्य श्रुतत्वाभिधानोपपत्ते, श्रुतस्य च स्पष्टमेव धारणाख्यमतिज्ञानजन्यत्वमाम्नायते । स्मरण च धारणैवेति तु निर्णीतमेव । न च स्मरणस्याऽपूर्वार्थावगाहकत्वाभावादप्रामाण्य धारावाहिकज्ञानवत् निर्विषयत्वाद्वा मरुमरीचिकाज्ञानवद्वेति वाच्यम् । तत्तेदत्वयो. स्पष्टमेव भेदात् । अपूर्वार्थकग्राहकताया धारावाहिकज्ञानमपि न सर्वथा नापूर्व, न चाप्रमाण, प्रमेयत्वाभावापत्ते., निर्विपयताऽपि नास्य, अननुभूतस्यापि स्मरणप्रसङ्गात् । अन्यच्च-स्मृतिप्रामाण्याभावे कथमिवानुमानस्यापि प्रामाण्यं जेगीयमान जाघटयात्,व्याप्तिस्मृतिमूलत्वात्तस्य । हेतो साध्याविनाभावित्व हि यत्पूर्वं निश्चित तदृष्टवा लिङ्ग स्मर्यते, स्मृते च तस्मिन् पक्षे साधनदर्शनात