________________
द्वितीयविगिका
१४०
शब्देनेति । सडक्रमादिव्यवच्छेदाय वोभयत्र क्षयो व्याख्यायते, तत एव च क्षयोपशमनिष्पन्नता मत्यादे सङ्गता भवति। न ह्यन्यथोदितपूर्व तदावरण तदवस्थाया व्याघातक भवति, येन तन्निष्पाद्यता तेषा सङ्गता भवेदिति नौपगमिके क्षययोजना । अत्र तु पठितः क्षय शब्द., तदुपपत्तये च विपाकोदयस्यैवैकस्य निरोधोऽभ्युपगतो नोभयो , तथात्वे च क्षयाभावात, क्षयोन्मुखत्वादेव च केवलादोपशमिकादस्यकधोदयनिरोधिनोऽपि विशुद्धिप्रकर्ष आम्नायते भाष्यकारादिभि । क्षायिके तु बन्धादिक्षयान्न क्षयशव्दयोजना सङ्गतेति ध्येयम् । ध्वनित च पूज्यपादैरपि सम्यक्त्वत्रयलक्षणमेवम्खीणम्मि उइण्णम्मि अणुइज्जते असेसमिच्छत्ते। अतोमुत्तकालं उवसमसम्म लहइ जीवो ॥१॥ खीणे दसणमोहे तिविहम्मि वि भवनियाणभूयम्मि । निप्पच्चवायमउल सम्मत्त खाइय होइ ।।२।। मिच्छत्त जमुईण्ण त खीण अणुइय च उवसत । मीसीभावपरिणय वेइज्जतं खओवसम ॥३॥" इति । अत्र शेषमिथ्यात्वेऽनुदीर्यमाण इति, निष्प्रत्यवायंमिति, मिश्रीभावपरिणतमित्यत्र- प्रागतत्तत्त्वे विविधानमिति च चिन्तनीयानि मतिमता, येनोक्तपूर्व भावि स्फुटमिति । अष्टादशधा चाय परिपठ्यते प्रवचनानूचान । तदाहु - "ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदा सम्यक्त्वचारित्रसयमासयमाश्चे"ति [तत्त्वार्थ०] । तत्र ज्ञायते-सामान्योपसर्जनेन विशेषमुख्यतया गृह्यते वस्त्वनेनेति ज्ञान-साकारोपयोगवाच्य स्वपराभास्यसाधारण आत्मगुण इति यावत् । तच्च यद्यपि मतिश्रुतादिभेदेन पञ्चधास्ति, तथापि पूर्व क्षायिकभावव्याख्याने केवलस्योक्तत्वाच्छेषाणि चत्वार्येव क्षायोपशमिकानि मतिश्रुतावधिमन पर्यायास्यानीति प्रतिपत्तव्यम् । न च - वाच्य शेपाणा म्मृतिप्रत्यभिजातानुमानोपमानार्थापत्त्यभावसम्भवैतिह्यप्रातिभा