________________
द्वितीयविशिका
क्षयोपशमस्य विलक्षणगुणोत्पादकत्वात्, साधनन्तत्वनियमाभावात्, प्रदेवोदयवत्त्वेन क्षायिकौपशमिकोभयवलक्षण्यात्, औपशमिकादनन्तर क्षायिकात् पूर्वं भावात्, मत्यादिस्वतन्त्रगुणप्रभवत्वाच्चोहनीय. सुधीभिः । सान्निपातिका हि सयोगरूपेण वाच्या एव, न तु ततो विलक्षणगुणस्य प्रादुर्भाव , केवल के सयोगा. कुत्र सभवन्तीति विचारणायैव तदुपयोगः । अत एव च सडग्रहकारैर्भावजीवाधिकारपठितभावेषु नासावुपान्यासि । क्षायोपशमिकस्य च चेत्स्वीक्रियेत सान्निपातिकता, छाद्मस्थिकज्ञानदर्शनाज्ञानलब्धिसयमासयमाना व्यवच्छेद आकस्मिकता वा, जात्यन्तरत्वे च द्विसयोगात् स्पष्टैव न सान्निपातिकता । 'खओवसमिए"त्ति । क्षायोपामिक:क्षय उदितस्य, उपशमोऽनुदितस्य क्षयोपशमाभ्या निर्वृत. क्षायोपशमिक । भिन्नश्चायमौपश मकात्, प्रदेशोदयवत्त्वेन प्रतिपातनियमाभावात्, क्षायिकतावाप्ते क्रमेण, सर्वेषामपि घातिना विषयत्वात्, स तु "मोहस्सुवसमो खलु"त्ति वचनात् पूर्वोक्तयुक्तेश्च मोहस्यैव केवलस्य । न च वाच्यमुपगमश्रुतिसाम्ये किकृतोऽय भेदः, क्षयस्तु तत्रापि सिद्ध एवार्थबलादिति । तत्र द्विधोपशमः । अत्र तु विपाको'दयस्येत्युक्तप्रायमेव । श्रुतिसाम्य द्विविधस्यापि उपशमशब्दवाच्यत्वाविरोधात् । न च वाच्यमौपशमिकस्यैव द्विभेदत्व कथ्यता, सर्वोपशमदेशोपशमजत्वेनेति । तथोक्ते. सौकर्येऽपि भावार्थानभिगमात् । औपशमिकादुपशमप्रधानात् क्षायोपशमिकस्य तु प्रदेशोदयवेदनेन क्षयोन्मुखत्वाद्भिन्नत्व क्षयमिश्रत्व चास्य सङ्गमनीयं तथैव । अन्यथोदीर्णस्य क्षयस्तु तत्रापि, पर विशेपोऽयमेवात्र यत्क्षायोपशमिकावस्थायामपि नूतननूतनवेदनेन क्षपयतीतिध्वननाय उभयताऽऽम्नातेति । 'विपाकोऽनुभव ततश्च निर्जरे'ति नियमेनोदितस्य च नामशेषता स्यादेवोभयत्रापि तन्नोद्य न, नार्थोऽत्र क्षय