________________
द्वितीयविशिका
१३८
अणाउए निराउए खीणाउए आउयकम्मविप्पमुक्के गतिजातिसरीरगोवगवधणसघायणसघयणर्सठाणभणेगवोदिविंदसघायविप्पमुक्के खीणसुभनामे खीणअसुभनामे अनामे ३ सुभासुभनामकम्मविप्पमुक्के खीणउच्चागोए खीणनीयागोए अगोए३ सुभासुभगोयविप्पमुक्के खीणदाणतराए एव० लाभभोगउवभोगवीरियतराए अणतराए निरतराए खीणतराए अतरायकम्मविप्पमुक्के सिद्धे बुद्धे मुत्ते परिनिव्वुडे अतगडे सव्वदुक्खप्पहीणे से त खयनिप्फण्णे" इति सूत्रानुरोधादेवम् । तत्त्वतस्तु न तत्रापि शेषकर्मक्षयोद्भता गुणा दर्शिता इति नवैव क्षायिका । ननु च मत्याद्यावरणाना क्षयो भवति न वा ? भवति चेत्, तत्समुद्भ ता कथ न क्षायिका भावास्तेषा त्वस्त्येव धातिकर्मत्वमिति चेत्, सत्य, व्रजन्ति क्षयं, अन्यथा निरावरणत्वानुपपत्ते , पर न तदुद्भवा मिन्ना गुणा केवलादिभ्यो, येन व्यपदिश्यरँस्ते पृथगिति । केवलाद्यावृत्यपनायकाध्यवसायेनैव तेपी नागात्समूलम्, उत्पद्यते चनिन्तर केवलमेवेति न भिन्नानि मत्यादीनि प्रतिपादितानि । चकारश्चं क्षायिकाणामवान्तरभेदज्ञापनायें। ये औपाधिका भवस्थकेवलत्वादय उच्यन्ते तेऽत्रव, न भिन्ना इति । यद्वा-आत्मस्वरूपतैषा ज्ञापयति । तथा च नेतरोत्पातुकभाववदस्य सान्तत्व, कर्मवियोगजन्यत्वात् । वियोगश्चानन्तोऽपि भवत्येव, अन्यथा ध्वसस्यानित्यत्वापत्तै वे च स्वरूपस्योद्भव , किन्तु प्रादुर्भाव एवं। तथा च नोत्पत्तिमत्त्वादपि मान्तताप्रसङ्ग । तथेति वक्ष्यमाणेक्षयोपगमस्य क्षायिकवत् सद्भावताज्ञापनाय, तेन निरस्तास्ते, ये कल्पना कल्पयन्ति स्वमनीषया यदुत-प्रतिपादनीयश्चित्वार एवौदयिकौपशमिकक्षायिकपारिणामिकाख्या भावा , क्षायोपगमिकस्तु सान्निपातिकतया न पृथक्, तस्य क्षयोपशमलक्षणद्विकसयोगरूपत्वादिति। तेपा. निरासश्च