SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ द्वितीयविगिका स्वरूपप्रतिबन्धकत्वे च न घातित्वमात्मगुणघातकानामेव तथात्वात्। तथा च भगोपग्राहीण्येवैतानिाचत्वारि कथ्यन्ते । यद्वागुणस्थानापेक्षया भावविचारणाया प्रक्रान्तत्वाच्छेषाघातिकर्मक्षयञ्च चरमगुणस्थानके प्रान्ते, तदुद्भवाश्च गुणा. सिद्धदशाया प्रादुभवन्त्यनन्तसुखाद्या , सिद्धदशा च गुणस्थानक्रमातिरोहातिक्रान्ता कार्यरूपेति न शेषक्षायिकभावसम्भवः। यदि च "दुविहा होति अजोगी सभवा अभवा निरुद्धजोगा य। इह सभवा अभवा उण सिद्धा जे सव्वभवमुक्का ॥१॥" इतिवचनेन सिद्धानामप्ययोगित्व स्वीक्रियते । अयोगिगुणस्थानीया ह्रस्वपञ्चाक्षरात्मिका स्थितिश्च सभवायोगिन आश्रित्येति सोपस्कार च व्याख्यायते, तदा स्यादेव शेषाणा क्षायिकभावत्वम्, परमत्र तद्गुणाधिकारत्वेन नवोदिता इत्यवधेयम् । सिद्धत्वप्रादुर्भावश्च समस्तादृष्टक्षयात्, न त्वेकतमक्षयात् । इति नासावपि सिद्धत्वाख्यः परिपठित क्षायिके। यद्वाभवन्तूपलक्षणेनान्यान्यपि । यदुक्तमनुयोगद्वारेषु-"से कि त खयनिप्फन्ने २ अणेगविहे पन्नत्ते-उप्पन्ननाणदंसणधरे अरहा जिणे केवली खीणाभिणिवोहियनाणावरणिज्जे, एव० सुयओहिमणपज्जवकेवलनाणावरणे अनावरणे निरावरणे खीणावरणे नाणावरणिज्जकम्मविप्पमुक्के केवलदसी सव्वदसी खीणनिद्दे खीणनिहानिद्दे खीणपयले खीणपयलापयले खीणथीणगिद्धी खीणचक्खुदसणावरणे एव० अचक्खुओहिकेवलदसणावरणे अनावरणे निरावरणे खीणावरणे दरिसणावरणिज्जकम्मविप्पमुक्के खीणसायावेयणिज्जे खीणा सायावेअणिज्जे अवेयणे निव्वेयणे खीणवेयणे सुभासुभवेयणिज्जकम्म विप्पमुक्के खीणकोहे जाव खीणलोभे खीणपेज्जे खीणदोसे खीणदसणमोहणिज्जे खीणचरित्तमोहणिज्जे अमोहे निम्मोहे खीणमोहे मोहणिज्जकम्मविप्पमुक्के खीणनिरयाउए,एवं० तिरियमणुयदेवाउए
SR No.010690
Book TitleLoka Vinshika
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherManikyasagar Suri
Publication Year1965
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy