________________
द्वितीयविगिका
ANM
परप्रेरित स्वस्वत्वत्यागेन स्वस्वत्व वा। भुज्यते-अभ्यहियतेऽपुनर्भावेन वस्तूना धान्यनक्सन्निभाना सुखसाधनतया प्रयोगः "सकृदेव भुज्यते य स भोगोऽन्ननगादक" इतिवचनात, मकृत्त्व च प्रकरणबललभ्य, पश्चादुपभोगो यत पठितोऽतस्तद्विपरीतं शेषमन्न ग्राह्य, तथा चोक्तमेवापतित । तथा उपेति पुनः पुन । न च वाच्य कथमुपशब्दोऽभिदधीतैनमर्थ, यत "उपासन्नेऽधिके हीने" इत्यादौ नैपोऽर्थ इति । आधिक्येन समानत्वात् । यद्वानिपातानामनेकार्थत्वादिग्मात्रदर्शनमेव कोगादिना नियते, रूढया शक्तिनियम्यते कोशेन तावन्न तेन नान्या शक्तिनत्यवसेयम्, यौगिकस्यापि भेदस्याभ्युपगमात्तन्न कोगादर्शनेनाप्रमाणता प्रस्तुते प्रकल्प्या कल्पनया आप्ताख्यातानुगते । भुज्यते-सुखसानतया प्रयुज्यते य स उपभोगोऽसकृदङ्गनादिसन्निभाना सुखसाधनतया प्रयोग "पुन पुनर्भोज्य उपभोगोऽङ्गनादिक" इतिवचनात् । तथा वीरण वीर्य 'शूरवीर विक्रान्ता'विति वचनात्,"ऋवर्णव्यञ्जनान्ता
यण" [सि० ५।१।१७] इति यथेप्टरूप नष्पत्ति । आत्मन शक्तिरिति, शारीरिकी तु तत्प्रभवैव, अन्यथाऽशरीरिणा न स्यादेव सा, नास्ति तेषा, वीर्यस्यानन्तचतुष्टये परिगणनात्, आत्मन स्वभाव एव च ज्ञानादिवद्वीर्यमिति भवत्येवेद तेपामिति । एतेन ज्ञानावरणवीर्यान्तरायक्षयोपशमसमुत्थ आत्मगुणविशेषो ज्ञानमित्यभियुक्तप्रोक्तं सङ्गच्छत एव, शक्तिमन्तरात्मन कस्यचिदप्यभावादिति । एतानि पञ्चापि दानादीनि जीवस्वभावभूतानि केवलमन्तरायाभिधानेनादृप्टेन विहतानि पञ्चभेदवता, क्षये चाभ्रपटलविलयनावाप्तनिरावरणताविस्तारितप्रभापटलप्रभापतिरिव जीवोऽपि प्रथितदानादिगुणप्रस्तारको भवेदेव । न च जीवाना कथ स्वाभाविक दानादीनि ?, यतोऽपरवस्तुदानादानादिसाध्यानि