________________
द्वितीर्यावशिका
चक्षुर्दननादीनि । न च नोपात्त सूत्रे केवलपदमिति, अनुपादानेऽप्यस्यैव भायिकता केवलयुगलस्येति तदेवोपादीयते। यद्वा-पूर्व हि क्षायिक प्रजाप्य 'ज्ञानदर्शने'तिमामान्यशब्देन क्षायोकशमिके ज्ञानदर्शनयोश्चतुस्त्रिभेदोपादानादत्र केवलस्यैव युगल गृह्यते इति न कापि विप्रतिपत्ति । क्षायिकत्वादेव चानन्तानुत्तरकृत्स्नप्रतिपूर्णत्वादिविशेपणान्वित केवलयुगलमिति द्वयमप्येतन्न क्षयमन्तरा कपायाणाम् । सत्सु हि तेषु प्रतिकलमाकलनीयः कलाविदा ज्ञानवृत्यादिवन्धस्तन्मूलत्वात। अत एवोच्यते-"केवलियनाणलभो नन्नत्थ खए कसायाण" इति । कषायाणा क्षयोऽपि च प्रवचनोक्तक्रमेणैवेति प्रतिपादित-गुणस्थानक्रमारोहहतमोहमिति 'परपरगयाण'मिति च । तथा च युक्त्तमेव "केवलनाण सनामे"त्ति "केवलदस सनामे त्ति च" जीवसमासवच । एतेनात्मन्वरूपभानमात्रेण केवलसत्तावादिनो निरस्ताः पापात्मान सारम्भपरिग्रहाः दृश्यमानभाषाज्ञानगन्धाभावेऽपि पूपूजयिषवः । न हि लोकालोकावभासकतां विहाय क्षायिकं केवलं । 'सर्वद्रव्यपर्यायेषु केवलस्येति 'त नत्थि ज न पासड भूअ भव्व भविस्स च"त्ति सामग्रीविशेपसमुद्भ तसमस्तावरणविच्छेदाज्जात सर्वद्रव्यपर्यायसाक्षात्कारस्वरूप केवलमितिवचनाच्च । न चात्मनो ज्ञस्वाभाव्यादावरणक्षयाच्च समस्तवस्त्ववभासो न भवेत्, आवरणविच्छेदे अवश्यमावार्यप्रादुर्भावात् । आवरणाभावश्च स्पष्ट एव न तेषा, ये रमणीरमणीयाङ्गरमणारामाणामस्त्राक्षमालादिपरिकरितकरणाः । मोहमहामल्लाभिहतात्मस्वभावत्वेन यथार्हगुणानवाप्तेरित्यलमभिनिविप्टैर्वार्ताप्रसङ्गेनापि । तथा दीयते-वितीर्यते सति स्वे याचके चेति दान-स्वस्वत्वत्यागपूर्वकमर्पणम् । लभ्यते-प्राप्यते याचनाया सति च स्वे परेभ्य इति लाभ:-परकीयस्वत्वपरिहारेण प्राप्तिः,