________________
द्वितीयविशिका
१३१
"जानदर्शनदानलाभभोगोपभोगवीर्याणि चे"ति [तत्त्वार्थ वचनात् । अत्र चकारेणीपशमिकभावविभावित सम्यक्त्वचारित्राख्य भावयुगलमनुकपणीयमिति । ज्ञान केवलज्ञानमेव, न त्वन्यानि, तस्यैव समस्तज्ञानावरणीयादृष्टापनयनोद्भवत्वात् । न हि केवलिनो भवति सूक्ष्मतममपि ज्ञानावरणीयम्, तत्सद्भावे केवलस्यैवानुत्पादात् । शेषाणि मत्यादीनि तु न हि भवन्ति ज्ञानावृतिसम्वन्धमन्तरा, हृपीकादिनिमित्तत्वात्तेषाम् । न चावाप्तस्वभावानामहत्यन्यसाहाय्येन कार्यकर्तृता। यद्वा-केवलावरण स्थितिमदेव तेषा मत्यादिवतामिति न तानि क्षायिकाणि । न च वाच्य तानि सन्त्येव केवलिना, केवलिनश्च ज्ञानावरणीयशून्या इति स्यात्तेपामपि क्षायिकतेति । कैश्चिदेव तदभ्युपगमात, अभ्युपगतेष्वपि च न तै क्षायिकत्वेनाभिप्रेतानि,केवलावरणक्षयजातजन्मत्वाभावात् । ते हीत्यध्यवस्यन्ति यदुत-केवलोत्पादादागभूवन् यानि मत्यादीनि, तानि नाऽऽवृतानि, केवलिनो ज्ञानावरणीयवन्धायोगात् । न च केवलेन नाशितानि, तस्य तैस्तथाविरोधाभावान्मत्यादिज्ञानान्यपि चाऽऽत्मस्वभावभूतान्येवेति तानि सन्त्येव, पर न तेषामुपयोगः केवलिनाम् । उपयोगे च स्पष्ट एवासर्वज्ञत्वव्यपदेश उपयोगापेक्षया स्यादिति । व्याख्यान्ति चैतत्पक्षानुसारिण -"नट्ठम्मि उ छाउमथिए नाणे” इत्येतत्सूत्रमुपयोगनाशापेक्षया नप्टे छाद्मस्थिके ज्ञाने समुदायोपचाराज्ज्ञानोपयोगे इति, न तु शक्तिरूपस्य च्छाद्मस्थिकस्य मत्यादे श इति । अन्ये तु व्याख्यान्ति यदुत-द्वारजालकगवाक्षादिकल्प मत्या द, सर्वथा व्यतीते भित्ति कल्पे ज्ञानावरणे कथङ्कार - सम्भवेदिति नास्त्येव च्छाद्मस्थिक ज्ञान, स्वरूपापेक्षयापि केवलिनामालोकितलोकालोकाना च प्रतिसमय कि न्यूनं भगवता सर्वज्ञाना सर्वदर्शिना ? यदवलोकयेयुर्मत्यादिनेति नास्य सम्भव इति द्वयोरपि