________________
द्वितीयविशिका
१३०
एव, अन्यथा प्रदेशोदयसम्भवात्क्षायोपशमिके स्यादस्यैव विशुद्धिप्रकर्ष । यद्वा-उद्भूतवीर्यत्व क्षायोपशमिकस्याऽस्य तु स्थितिवीर्यत्वमिति स्फुट एव क्षायोपशमिकस्य विशुद्धिप्रकर्ष पूर्वप्रतिपन्नापेक्षयैतत् । अन्यथा “वडढते परिणाम पडिवज्जेज्जा चउण्हमन्नयर" इतिवचनान्मन्तव्यमिति चेद्, अस्तु तथाविशुद्धपरिणामत्वात्प्रतिपद्यमानस्यौपगमिकत्वम्, पर नैष नियमो यद्वर्धमानपरिणाम एवाप्नोति चतुर्णामन्यतम "एमेव वट्टियम्मि” इतिवचनात् । एतावानेवात्र नियमो-यद्धीयमानाध्यवसायो न लभत इति। तत उक्त-"हायति न किचि पडिवज्जे"त्ति। युक्त चैतदनिवृत्तिकरणानन्तरमौपशमिकस्यावस्थितपरिणामत्वात् । अनिवृत्तिकरण तु न स्यादेवावस्थितपरिणामानाम् । न चाविधायानिवृत्तिकरणमवाप्नोति सम्यक्त्व "तइय अनियट्टिकरण सम्मत्तपुरक्खडे जीवे" इतिवचनात् । त्रिपुञ्जीकरणरूपमन्तरकरण तु नैवासी विधत्ते प्राप्स्यत्क्षायोपशमिकस्य तत्करणात् । अत एवोक्तमभियुक्तैरावश्यकादौ "ऊसरदेसं दढिल्लय च" इत्यादि। तथा “खइए"त्ति । क्षायिकाभिधानस्तृतीयो भाव , तत्र क्षयो-विवक्षितस्यात्मगुणप्रतिवन्धकस्य वन्धोदयोदीरेणासत्तापेक्षयाऽपुनर्भावन विनाशो, न हि क्षीणे भवति पुनस्तद्वन्ध आकस्मिकत्वापत्ते , क्षयश्चानुभवेन, यथा 'विपाकोऽनुभाव । ततश्च निर्जरे'तिवचनात्तथैव तपसापि, "तपसा निर्जरा चे"ति वचनात् । न चास्ति नियमो यद्भोगादेव क्षय कर्मणा, विपाकोदयस्यावश्यमनुभवनीयत्वे गुणप्राप्तिप्रसङ्गस्यवोच्छेदापत्ते , वेदनकाले विपाकस्यावश्य बन्धभावात्तस्य । न चोपपद्येत मोक्षावाप्तिरपि चैवमिति स्वीकार्य एव क्षयोऽनुभवेतरेणापीत्यभिहितमेव प्राक् सप्रपञ्चम् । तेन क्षयेण निवृत्त क्षायिक - समूलघातं घातितकर्मावाप्तात्मस्वाभाविकगुण । स च नवधा