________________
द्वितीयविशिका
१२९ उवसत्तलोभे” इत्यादिका । अत्रापि पूर्व "अणदसनपु" इत्यादिना प्रतिपादित एवानेकानामुपगम इति कथ द्वे एवेति चेत्, सत्य, यद्यपि भावाना परिस्थूरतया दर्शिता इत्युक्तमेवप्राक्, तथापि तत्प्राप्यगुणद्वैविध्यादत्र द्वैधत्वमुपपाद्यमानं नासङ्गत । मोहस्य द्वैविध्यादेवावार्यस्यैकविधत्वे आवारकाणां बहुविधत्वेऽपि प्रादुर्भावमापन्नस्यैव तथात्वेनोत्पादस्याविचादास्पदत्वात् । मोहश्च दर्शनं चारित्र चेति युग्ममेवावृणोत्यनेकभेदोऽपीति युक्तमेव द्वैविध्य तदुपशमप्रभवम् । क्रोधाद्याश्च दर्शनचारित्रमोहभेदा एव, तृतीयस्य मूलभेदस्यैवाभावात् । ननु यथोपशमयितुमारभते मोह दर्शनचरणभेदेन द्विविधमपि, कालस्यातिहसीयस्त्वात्तत्करणे कालपूतन करोति शेषकर्मणामुपशमस्तथा ज्ञानावरणीयादिक किमिति नोपशमयितुमारभते ?, कश्चिदारभेत च चेत्तर्हि वाच्यानि केवलादीन्यप्यौपशमिकानीति-चेन्मा विस्मार्टयदनिरुद्धकषायबलो न शेषकर्मणामुपशमाय प्रभवत्ति, तन्मूलत्वाज्ज्ञानावृत्यादीनाम्, अत:, एवोच्यते-"मस्तकसूचिविनाशात्तालस्य यथा ध्रुवो भवति नाशं । तद्वत्कर्मविनागो मोहनीयक्षये नित्यम् ॥१॥" इति । यद्वा-मोहक्षयानन्तरमेच शेषादण्टक्षयो यथा,तथैवोपशमोऽपि तदुपगमानन्तरीयकः । अत एव 'मोहक्षयाज्ञानदर्शना. वरणान्तरायक्षयाच्च केवल मिति [तत्त्वा०] सूत्रित सडग्रहकारैः क्षयमाश्रित्येति न शेषकर्मणामुपशमसम्भव. । एव च नोक्तभेदसडस्याव्याघात इति प्रदेशविपाकोदयनिरोधेऽपि चैतस्'यौपशमिकक्षायोपगमिक–क्षायिकाणा परत. परतो विशुद्धिप्रकर्प' इतिवचनेन योऽम्य विशुद्धचपकर्ष , क्षायोपशमिकापेक्षया प्रतिपादितो भाष्यकारै । असौ चावस्थित्तपरिणामत्वादीपशमिकस्य प्रवर्धमानपरिणामत्वात्प्रदेशोदयेन कर्मनिर्जरणाच्च क्षायोपामिकस्येति युज्यत