________________
द्वितीयविशिका
-
१२७
अत एव चापूर्वकरणवज्रसूच्या भेदोऽस्य। एव भिन्नग्रन्थिश्चोपक्रमते मिथ्यात्वक्षयायानिवृतिकरणाख्येन परिणामेन। तत्र चौपगमिक उदितानुदितमिथ्यात्वमोहक्षयोपशमाभ्यामवाप्नोति औपशमिक सम्यक्त्व मिथ्यात्वकृशानोरुदयस्योपगामनात् । तदाह-- "ऊसरदेस दढिल्लय च विज्झाइ वणदवो पप्प। इय मिच्छस्सणुदए उवसमसम्म लहइ जीवों ॥१॥" इति । शुद्ध परिणामश्चात्रोषरोादिवत् प्रतिबद्धोदयाश्च मिथ्यात्वपुद्गला अन्तमहत यावदेवेति लभतेऽसौ प्रतिपात प्रथममौपशमिकलाभश्च तत्रैव युगपन्मिथ्यात्वपुद्गलाक्रमणात् प्रत्यर्थिपार्थिवप्रथितपुररोधवत् । अन्यत्र तु सामर्थ्यविशेषस्य सद्भावात्क्षपयत्येव देशतः प्रदेशवेदनेन उपगमश्रेणौ च चारित्रमोहक्षपणव्यग्रतया नैतस्य भपणाय विधत्ते विक्रम, न चान्यत्रास्ति ह्येतत, पञ्चकृत्व एवैतत्प्राप्ति समग्रेऽपि भवचक्रे उत्कृष्टतो जीवस्वाभाव्यादेव, प्रथम तावदुक्तनीत्या चतुश्चोपशमश्रेण्यामिति तावतामेव भावात् । ननु च पुनरौपशमिकत्वावाप्तौ कथा द्वितीयमपूर्वकरणमिति चेत् । एक आहु पुनर्बन्धात् । एके तु तत्रापूर्वमिवेत्याहु । एवमेवीपशमिकंचारित्रमपि, तच्चोपशमश्रेणावेव, सा चेत्थ-"अणदसनपुसित्थीवेयछक्कं च पुरिसवेय च । दो दो एगतरिए सरिसे सरिस उवसमेइ ॥१॥ लोभाणू वेइतो जो खलु उवसामओ व खवगो वा । सो सुहुमसपराओ अहखायाओ णओ किचि ॥२॥ उवसामं उवणीया गुणमहय"त्ति । तथा चर्यते-मुमुक्षुभिरासेव्यत इति चारित्रम् । तच्चौपशमिक प्रागुक्तोपशमश्रेण्यामेव, तत्र कषायनोकषायचरणमोहोपशमादिति प्रतिवन्धकससर्गाभावे च स्पष्टैव कार्यसिद्धिरिति चारित्रमपि स्यादेवोपशमोद्भवमिति । एते द्वे एव औपशमिके । ननु कथ च मतिज्ञानावरणादीनां