________________
'द्वितीर्यावशिका
१२६
वा विद्यासाधने पूर्वसेवा महत्येव, पर नेतावन्मात्रेण मिद्धिराप-नीपद्यतेऽन्तरेण जापमिति नानाश्वासो नि श्रेयसाध्वनि, विभावयामश्च यथा हि तीव्रतरव्याधिव्याप्तकरणस्याऽनुलवलौषधोपभोगमाहात्म्येन प्रतनुके आमये स्वयमाविर्भवति नीरोगता, भवति च प्रसन्नमुखकमल आमयावी, आसेवते च द्विगुणितहर्षभरमेदुरो यथाविधि प्राप्तप्रोल्लासागदकरणक्रियोऽगदमगदवारोक्तम्, भवति च सर्वथा रोगाणा नामशेषता। तथाऽत्रापि तावति हासे स्वयमेवोत्पद्यते गुण प्रवृद्धश्च परिणामञ्च पूर्वोक्तातुरवत्प्रवर्तते विशेपत , एव च विना सम्यग्दर्शनावाप्ति क्रियाया निष्फलत्वमपि कथञ्चिज्जागद्यमानमसाध्यव्याधिपूरपूरितमूर्तिग्लानस्यौपधवातमिवातिक्रान्ताशेषौषधिवल आरोग्यविधानरूपतात्त्विकफलाभावेनेव परमपदप्रापणताविकलत्वेन तथाविधस्य न पक्षपातिता व्यञ्जयेतत्प्रतिपादकाना, ग्रन्थि यावदेनमनन्तग आगच्छन्ति जीवा । न चैतावन्मात्रेण कल्याणास्पदपदप्रापणयोग्यकारणसमापत्ति । अभव्या अपि चागच्छन्त्यैवात्र, लभन्ते च द्रव्यत श्रुतसम्यक्त्वमपि । न च वांच्य कथमेतावती भूमिमागतस्य ग्रन्थिनर्वािगवेति । चरमभागत्वेनानन्तानुवन्धिना विवक्षितोऽत्र, गुणप्रापणमप्येतस्मिन् भिन्ने, 'भवति च पुरगोपुर इव बलवत्तरा मोहसुभटा अत्र। यदि वा जातेऽवबोधे उदय यायान्मोह इति सोऽत्रैव विवक्षितो, यदि वा प्राक्क्रमशोऽ शाशेन क्षय स्थिते , अत्र तु समुदित इति क्षय्यसमुदायापेक्षयाऽत्र ग्रन्थित्वमुख़ुष्यते । भवत्येव च समुदायस्याल्पशक्तिकस्यापि बलवत्तरता, दृश्यते च तृणसहत्या मदोन्मत्ता “अपि करिणो बध्यमाना इति अत्रैव ग्रन्यिविवक्षित । यदि वा समूलमूत्खननाय-प्रवृत्तो मिथ्यात्वमूलमनन्तानुबन्धमिति तस्य अन्यिरिव "भेदो विधेय इत्येव' व्यपदिश्यते, “वृक्षस्येव भवति दृढता मूलस्य,