________________
द्वितीर्यावशिका
१२५
AN
-ऽनात्मनिह नुवानेन । कथ विरुद्धयोरेकत्र समावेश ? इति चेत् ह्रस्व-दीर्घत्वपितपुत्रत्वगुरुशिप्यत्ववत्तरयानुभवसिद्धत्वम् । न चैव सशयसाम्राज्य विकृतान्तरीक्षणेक्षितकान्तसुन्दग्यारीरिकमीमासाकारलुप्तविवेकनयनप्रभारत्नप्रभाद्यापादित, स्वापेक्षया निश्चितत्वात् सर्वेषाम् । नन्वेवमे (मने) कान्तवादाभ्युपगमे प्रतिज्ञाहान्या निग्रहस्थानानुसारित्वमिति चेत, आ पातकिन् । अनवधायैव वस्तुतत्व वस्तुतत्त्ववधायाऽवधावसि, स्वत्वादिकमप्यापेक्षिकमेव । न हि सर्वथा स्वत्व परत्व वा नियतम, स्वेतरद्रव्यक्षेत्रकालभावापेक्षया स्वत्वान्यत्वात् । अत्यच्च-कथ व्यवहारेण प्रत्यगात्मता निश्चयेन परमात्मतामभ्युपगच्छन् कारणकार्ययोरनन्यत्व चाभ्युपगच्छंश्च स्ववत्रायोद्गीणं प्रहरण न सम्पादयेत् । इत्यल पापाना कथया। एव चानाभोगेनापि निवर्तयन् कमलाघव जन्तुस्तावद्यथाप्रवृत्तिकरणेनाभ्येति यावद् घनरूढदृढ सुचिक्कणो रागद्वेषपरिणामरूपो ग्रन्यि तं प्राप्तश्च पल्योपमासडख्येयभागन्यूनसागरकोटाकोटिहीना सर्वामपि क्षपयति सर्वेषा कर्मणामनायुष्काणाम्। ननु च कथ -स्थितिक्षयो वद्धाना, सम्भवेद्यद्यपि बध्यमानानामिति चेत् "दीहकालठिइयाओ हस्सकालट्ठिइयाओ पकरेइ” इतिवचनात् । तथा च प्राग्वद्धानामपि स्थिति ह्रसयन् कर्मणामेतावती शेषयति । दीर्घस्थितिकानि हि दृढबन्धनवद्धानि भवन्ति कर्माणि । न च -तथावद्धोऽवाप्नुयाद् गुणयोग्यतामिति युक्त एव. स्थितिहासः। न च वाच्य यथायमनाभोगेनापीयान् स्थितिह्रासो भविष्यति तथा गेषोऽपीति - पलायितं. सम्यग्दर्शनादिना मोक्षसाधनेनेति । पाशुवहुले पथि वायुनापहृते स्थूले रजसि किमेवमेव स्यान्नीरजस्त्व तस्य । एवमेवात्रापि। यथा वा सीमानमतिगन्तु शक्यते प्रत्यर्थिपार्थिवेनान्यस्यावनीपते., नैव तस्य पट्टनगरम् । यथा