________________
द्वितीयविशिका
१२४
क्षीयते, आसन्नोदयान्यपि च निरुध्यन्त एव कर्माणि; छाद्मस्थिकरचोपयोग एकस्मिन्नुत्कृष्टतोऽप्यान्तमात्तिक एवेति । भवत्येव वान्तिस्खलनावत्काश्चित्कला उदयनिरोध प्रतिपातश्च । कथ न क्षायोपशमिकस्तावविध इति चेन्न, तत्र पूर्वोक्तवत्प्रदेशोदयवेदनेन क्षयापादनात्प्रतिवन्धकाना न प्रतिपातनियम , न चान्तमाहूत्तिकत्व तत्रापि, तथाविधरसवेदने तु भवत्येव प्रतिपात , अत एव "खओवसमिय असख” इति श्रूयते। औपमिकश्च द्विधा-'सम्यक्त्वचारित्रे' इति । तत्र समिति सम्यक यथावस्थिततयाऽञ्चतिअवगच्छति जीवाजीवादीन् सर्वेन्द्रियानिन्द्रियगम्यानानिति क्विपि सम्यग्-यथावस्थितपदार्थप्रतिपत्तिमान् तस्य भाव सम्यक्त्व-चेतनाचेतनत्वादिलक्षणादिविशिष्टाना जीवाजीवादीना श्रद्धानमिति यावत् । तच्चैव भवति-अनादिकालीने ससारेऽनादित परिभ्रमन्नसुमानरघट्टघटीयन्त्रन्यायेन स्वोपात्तकर्मवन्धोदीरणोदयनिर्जरापेक्ष चतुर्गतिकेऽनाभोगनिर्वतितेन यथाप्रवृत्त्याख्यकरणेन परिणामविशेषेणोत्तुङ्गतरसानुमन्निस्सरत्सरित्स्रोतोऽनुसारश्रितगतिग्रावा विचित्राकृतिमिवावाप्नुयात् लघुकर्मताम् । न च वाच्यं कथ सेति । यतो भवति वन्धोऽध्यवेसायापेक्षया निर्जराऽपि च । यदि चाङ्गी नारकवन्निर्जीर्येद्वहु, वनीयाच्चाल्प, कय न स्याल्लघुकर्मताऽकामनिजरासाम्राज्यं च तत्रापि विद्यत एव । तथा च तीव्रदु खोपनिपाते सत्यपि येन तथाविधानि नूलान्यादत्ते स स्यादेवैवविध । न चैव स्वभाववादस्य नियतिवादरय वा साम्राज्य तन्निरपेक्षमपि नेति चेत्क किमाह ? नहि स्याद्वादमतानुग किमप्येकान्तेनाभ्युपगम्यते किञ्चिदपि। तथात्वे सर्वमनिश्चितमिति चेद् अस्तु समग्रवस्तुन .एकधर्माभिलापापेक्षया, अत एव च स्याच्छन्दप्रयोग सङ्गच्छतेऽखिलावनीनिवास्यनुभूत एवापेक्षिकवादों न निह नोतु शक्यते