________________
द्वितीयविशिका
१२२
मेतदिति चेत् न, अयोगिनि बन्धाभावात । क्रमोदये च दीर्घकालमवन्धेकत्वाभ्युपगमप्रसङ्गो दुरुत्तरः। अन्यच्च-यदि नैव सम्भवेत्कर्मक्षयों, निरर्थकतामेवाप्नोति दीक्षाद्यनुप्ठानम् । न च स्याद् गुणप्राप्तिरपि, कर्मोदयस्य नाभ्युपगम्यते चेत्क्षय उपगमो वा, प्राग्वद्धांना प्रतिबन्धककर्मणा संद्भावात् । तदवश्यमभ्युपेय कर्मणामुदयनिरोधेनोपशम क्षयवत् । ननु भविप्यत्येपोऽर्थ क्षयोपशमेन तत्सदृशलक्षणेनोदीर्णस्य नागाद्भोगेनानुदीर्णस्योपशमाच्च तत्रापि, तन्नार्थोऽनन क्षयक्षयोपशमाभ्या भिन्नेन तृतीयेन जीवगुणभावेनेति चेत्, ननु कथमुपशमयानभ्युपगमे क्षयोपशमस्यैव तावच्छोभते. ऽभ्युपगम उभयरूपत्वात्तस्य, सति चोपगमयोग्यत्वे कर्मणां किमिति नाभ्युपगम्यते भावस्तृतीय औपगमिकाख्य । न हि क्षयोपशम भावे उपशम क्षयो विदधाति, तत्राप्यात्मपरिणामजन्यतयैव तस्यावश्यमङ्गीकरणीयत्वात् । तथा चात्मपरिणामजन्यः केवल औपशमिकोऽप्यविरुद्ध एवेत्यभ्युपेय एवासी । न च वाच्य भेदेनाभ्युपगमस्तथाप्य यानर्थक एव, यत क्षयः स्वतन्त्रो यथा तथोदीर्णस्ये क्षयेणानुदीर्णस्योपशमेन च क्षयोपशमभावस्य निर्वत्तत्वान्नार्थान्तरमस्ति, येन युक्तः स्यादभ्युपगन्तु भावस्तृतीयोऽभ्युपगच्छतापि चैन क्षयोपशमवदेवाभ्युपगम्यते । न चोदयमागतस्याभिमत विष्कम्भणमत्रापि, येन भेदः स्यादस्य क्षयोपशमभावादिति । विप्कम्भस्य द्वैविध्यात् प्रदेशविपाकाभ्या कर्मणा वेदनस्यापि द्वैविध्वात् । य उदय निरुणद्धि विपाकतोऽसौ स्यात्क्षायोपशर्मिक , 'यस्मिन् भवेत् प्रदेशोदयानुभवो येन च विष्कम्भितोदयस्यापि कर्मण स्यात्क्षय , उभयनिरोधे च क्षयाभावान्न कथारमप्यापद्येत कोऽपि क्षायिकभाव "कडाण कम्माण न मोवखु अत्यि" इतिवचनात् । न च वाच्य कथं तर्हि प्रदेशोदयवेदनमात्रेण स्यात्क्षय इति । मदन