________________
द्वितीय विगिका
१२१
तथाभावादजीवाना तेषामप्यौदयिकत्व प्रणिगद्यमान नानुचितिकोटिमियत्ति । उच्यन्ते च शरीराणि पुद्गलविपाकीनि क्रोधादयश्चोभयविपाका इति । आहुश्च सूत्रकारा स्पष्टमेव-"से कि तं अजीवोदयनिप्फन्ने२ अणेगविहे पन्नत्ते, त जहा-ओरालिय वा सरीर ओरालियसरीरपओगपरिणामिय वा, एव वेउव्विय आहारय तेययं कम्मय पओगपरिणए वण्णे गधे रसे फासे । से त अजीवोदय निप्फन्ने" इति । तथा च जीवकृतैरपि पूर्वकर्मभि शरीरादितया परिणति पुद्गलानां यत उदयावसरनिष्पन्ना, तत एषामौदयिकत्वम् । तथैव च वर्णगन्धरसस्पर्शपरावृत्तिरपि,तन्नाजीवानामौदयिकत्वमसङ्गतम् । एवमेव क्रोधादीनामुभयविपाकित्वमपि विजेयम्, तदुदयेऽक्षिशरीरादौ दृश्यत एव रक्ततादि । न च शरीरेण भवति जीवे परावृत्तिरिति तत्तन्नोभयविपाकीति सुधिया स्वयमूहनीयम् । एवमौदयिकस्वरूप कथञ्चिद्विस्तरत. सुवोधायाऽऽख्यायाऽथ क्रमप्राप्त द्वितीय भावमाहु.-"उवसमिए"त्ति । तत्रोपशमेन-कर्मोदयविष्कम्भेण निवृत्तमौपशमिकम् । न च वाच्य कथमुदयनिरोध कर्मणा सम्भवी, यतो न हि बन्धावसरे तथा बद्धानि तानि, तथावन्धाभावे च कथमुदयनिरोध., तथा प्रागेव बन्धे च कथमौपशमिकत्वमिति । प्राक् तथाबन्धाभावेऽप्युदयात्प्रागध्यवसायविशेषेण · तथा विधातु शक्यत्वात् । यथा ह्यध्यवसायविशेषेण बद्धानि पूर्व जीवेन तथैव तान्युपशाम्यन्ते चेत् तदा को विरोधो? जीववीर्योल्लासप्रावल्ये एव च भवत्येवम् । न.चोदयप्राप्ताना निरोधोऽभिधीयते केनापि, किन्तु भाव्युदयानामेव "अणुदिय च उवसत" इतिवचनात् । यदि च न भवेदुदयनिरोध , क्षयोऽपि न भवत्येव । न च वाच्य मास्त्विति, भोगेनैव क्षयोपपत्ते , यथा बद्ध तथैव वेचते चेत्, न स्यादेव मोक्षो, वेदनकालेऽपि नूतनवन्धभावात् । ननु-क्षयभावापत्तावपि समान