________________
द्वितीयविशिका
११७
ज्जाणोसप्पिणीण उस्सप्पिणीण जे समया। सखातीता लोगा लेसाण हवति ठाणाइ ।।१।" [उत्त०] इतिवचनात् । ननु च जीवानामानन्त्यात्कथ न लेश्यानामानन्त्यम्, प्रतिजीव लेश्याभेदात्, अध्यवसायस्थानाना चेतो विशेषेणाधिक्यम् । श्रूयतेऽपि च लेश्यास्थानेभ्यः प्रतिकण्डक प्रतिपादितान्येतावन्त्येवेति चेन्ननु लेश्याया द्रव्यावष्टब्धतयाऽनन्ताश्चानन्तकायिका एकत्र सहचरिता इति न तेषां विभिन्ना लेश्याऽभ्युपगता ज्ञायते । अत एव शरीरप्रमाणान्येतान्युक्तानि स्थानानीति ज्ञायते । यतोऽनुयोगद्वारसूत्र--"कइविहा ण भते । ओरालियसरीरा पन्नता ?। गोयमा | दुविहा पन्नत्ता, त जहा-वद्धिल्लिया य मुक्केल्लया य । तत्थ ण जे ते वद्धेल्लया, ते ण असखेज्जा असखिज्जाहि उस्सप्पिणीहि ओसप्पिणीहिं अवहीरति कालओ, खेत्तओ असखेज्जा लोग"त्ति। ननु च वैक्रियाण्यप्यसडख्यातान्येवाधीतानि शरीराणि तत्र, यत आहु - "केवइया ण भते । वेउव्वियसरीरा पन्नत्ता? | गोयमा । दुविहा पन्नत्ता बद्धेल्लया य मुक्केल्लया य । तत्थ ण जे ते बद्धेल्लया, ते ण असखेज्जा असखेज्जाहि उरसप्पिणीहि ओसप्पिणीहि अवहीरति कालओ,खेत्तओ असखेज्जाउ सेढीओ पयरस्स असखेज्जभागो'त्तिा" तत्कथ नाधिकानि स्युरुक्तपरिमाणतो लेश्यास्थानानि भवन्तीति चेत् । सत्य, तान्यत्र समावेशितान्येव ज्ञेयानीति बुध्यता । वैक्रियाणा औदारिकापेक्षयात्यन्ताल्पसङख्याकत्वात्, तेषु च तत्र समावेशितेष्वपि नोक्तसडख्याव्याघात इति सुस्थ सर्वम् । तथा प्रतिपादिता औदयिकभेदा गत्यादय । ननु क्रम एष,यथा कथञ्चिद्वैवमुपन्यास ? उभयथापि, यतः प्रथमतस्तावद्भवति गतेरेवोदयस्तदविनाभावित्वाच्छरीरादे , तदभावे च नैवेष्टानिष्टविषयप्राप्तिप्रत्ययिका कषाया , उच्यते च-"कर्मोदयाद्भवगतिर्भवगतिमूला शरीरनिर्वत्ति।